पृष्ठम्:महार्थमञ्जरी.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
श्रीमन्महेश्वरानन्दविरचिता

यदा-तु विकल्पोपश्लेषलक्षणं क्षोभम् अनुभवति, तदा विश्वविस्तारः प्रपञ्चस्फुरणवैचित्र्यात्मा वि मर्श इति, तत्र अधिको विशेषणांशः कश्चित् उत्पद्यते। एवं च प्रकाशस्य विमर्शः स्वभाव इत्थं स्वीकार्यः ॥ ११ ॥

 ननु विश्वव्यवहारो हि बहिर्ग्राह्यार्थतया क र्तुम् उच्यमानः कथम् आत्मस्वभावो विमर्शः स्यात् इत्याशंक्याह

पुहवीपरमशिवाणं
 पश्चाहारे पआसपरमत्थे।
जो अअंणोणविसेसो
 सोचिअ हिअंअस्स विमरिसंमेसो
॥ १२॥


७ विकल्पोपश्लेषलक्षणं - स एवाहमित्येवं रूपम् , क्षोभम् - इद मित्येवंरूपम् । ८ विशेषणांशः-समनाशिवरूपः ।