पृष्ठम्:महार्थमञ्जरी.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
श्रीमन्महेश्वरानन्दविरचिता

इति । एतेन

अमबुद्धमतीनां हि एता बालविभीषिकाः ।
मातृमोदकवत्सर्वं प्रवृत्त्यर्थमुदाहृतम् ॥'

 इति विज्ञानभैरवांशो व्याख्यातः ॥ ७ ॥

 ननु विधिनिषेधाधीना हि लोकयात्रा तयोश्च स्वेच्छामात्रजीवितत्वे तस्यां न किंचित् रूपम् इत्युक्तं स्यात् सैव संसार इत्युच्यते, तदुल्लङ्घने च न पुरुषार्थः, तत्प्रयोजनतया प्रवृत्तं च एतत्तन्त्रं काकदन्तपरीक्षाप्रायताम् उपपद्यते इत्याशंक्याह

पंजालोअणविमुहे
 वंथसहावंसअंपणो हिअए।
संकाविसवेएणे वि
 सारभयेण मुह्यहे लोओ ॥८॥


पं० ९ ग० पु आपद्यते इति पाठः । 4