पृष्ठम्:महार्थमञ्जरी.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
महार्थमञ्जरी

मर्श एव हि आगम इति प्रागपि अवोचाम । तदनुमातॄणाम् इच्छाशक्तिरेव प्रवृत्तिनिवृत्त्यौ न्मुख्यात् विधिनिषेध इति व्यपदेशभेदम् अनु भवति इति यावत् । यदुक्तं संवित्प्रकाशे

'त्यागः शक्यक्रियो यस्य स हेय इति निश्चयः ।
त्यक्तुं न शक्यते यच्च तदुपादेयमित्यपि ॥'

इति । मया च उक्तं संविदुल्लासे

'प्रामाणिकी विधिनिषेधकथा यदि स्यात्
 पर्यन्ततः परम एव शिवः प्रमाणम् ।
सर्वान्तरः स खलु तत्र विधिं निषेधे
 कर्तुं क्षमेत विहिते च विभुर्निषेधम् ॥'

इति । श्रीकालिकामतेऽपि

'पतन्ति जन्तवो येन कर्मणा नरके ध्रुवम् ।
उत्पतन्ति च तेनैव त्रिकालज्ञा भवन्ति च ॥'

इति । एतदाशयेनैव श्रीज्ञानेन्दुकौमुद्याम्

'मनो यत्रैव विश्रान्त्या पूर्णभावमुपाश्नुते ।
अतः परं हि किं नाम शुभं क्षेत्रं भविष्यति ॥'


पं० २ ग० पु तदनुष्ठातॄणामिति पाठः ।