पृष्ठम्:महार्थमञ्जरी.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
महार्थमञ्जरी

पर्यालोचनविमुखे
 वस्तुस्वभावस्यात्मनो हृदये।
शंङ्कारविषवेगेन इव
 संसारभयेन मुह्यते लोकः ॥८

 योऽयं लोको दृश्यवर्गविलक्षणो द्रष्टृत्वधर्मा तत एव परमेश्वरवत् आत्मनो विश्वशरीरत्वपञ्च कृत्यकारित्वाद्यैश्वर्ययोगेऽपि पशुत्वाभिमानी मा तृवर्गः, स्वस्य यत् हृदयम् इच्छाज्ञानक्रियात्म कशक्तित्रयमेलापरूपम् अन्तस्तत्त्वं तत् परामर्शं प्रति औदासीन्यम् .अवलम्बते, अत एव संसा रात् जननमरणरूपात् लोकयात्राव्यवहारात् बिभ्यति ।


 पोलोचनमत्रापरिणामिनी चितिशक्तिः, सैव च त्रिगुणातीत

शुद्धसत्त्वात्मकबुद्धितत्वरूपं हृदयमुच्यते । तथा च योगसूत्रम् । 'प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्' इति । अपरि णामित्वमपवर्गार्थं परिणामिनी तु सैव भोगार्थं प्रकृतिरित्युच्यते इत्यत उक्तं विमुखेत्यादि, तथा च सूत्रम् 'स्वस्वामिशक्त्योः स्वरूपोपलब्धि हेतुः संयोगः' 'तस्य हेतुरविद्या' इति च । तदभावात्संयोगाभावो हानं तदृशेः कैवल्यम्' इति च ।