पृष्ठम्:महार्थमञ्जरी.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
महार्थमञ्जरी

जंथ रुई तंथ विही
 जंथ ईमा णंथि तंथ अ णियेहो ।
इमयं ह्माणं च्छिवओ
 हिअइक्ष्य मात्रि साथाणं ॥७॥

यत्र रुचिस्तत्र विधि-
 र्यत्र च नास्ति तत्र च निषेधः ।
इत्यस्माकं विवेको
 हृदयपरिस्पन्दमात्रशास्त्राणाम्॥७॥

 यदेतत् अस्ति इति ज्ञानलक्षणो विधिः नास्ति इति ज्ञानस्वभावो निषेधश्चोदनार्थः, तत्र सन्ध्योपासनादौ विधिः कलञ्जभक्षणादौ निषेधश्च इति उच्यते। तत्र इदम् आलोचनी यम् , - अनुष्ठातुः प्रवृत्तिनिवृत्तिप्रयोजनतया वि धिनिषेधयोर्व्यापारः, 'अज्ञातज्ञापकत्वे सति अप्र वृत्तप्रवर्तको विधिः' इत्युक्तत्वात् । तत्र किं