पृष्ठम्:महार्थमञ्जरी.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
श्रीमन्महेश्वरानन्दविरचिता

तज्ज्ञानमात्रेण प्रवर्तते उत स्वेच्छानुगुण्यात् , यदि ज्ञानमात्रेण सन्ध्यानुपासकः कलाञ्जभक्षको वा न कश्चित् आलोकेत, यदि तु स्वेच्छानुगु ण्यात् तदनुमातॄणां रुचिमेव विधिनिषेधौ अनु वर्तेते इति अर्थो भवति ततश्च तेषां सन्ध्यो पासनादौ यत्र रुचिस्तत्र विधिः यत्र वा कल ञ्जभक्षणादौ न रुचिस्तत्र निषेधः इति अनया भङ्ग्या सन्ध्योपासनादावेव अरुचिश्चेत् तत्र निषेधः कलञ्जभक्षणदावेव चेत् रुचिस्तत्र च विधिः, इति अर्थतत्वनिश्चयः स्यात् इत्यक्र मेण अस्माकं परमेश्वरविमर्शपर्यायपूर्णाहंभावभू षितानां विवेको विधिनिषेधयोस्तात्पर्यतो नि ष्कर्षः। एतादृशे च तत्त्वनिश्चये तदेव नः शास्त्रं- यत् सर्वसंवित्संघट्टात्मनः स्वहृदयस्य प रितः पृथिव्यादितत्त्वपरंपराक्रोडीकारप्रावीण्येन स्पन्दः परामर्शात्मा चमत्कारः, पारमेश्वरः परा-


पं० ४ पु० तदनुष्टातॄणां रुचिरेवेति, अनुवर्तते इति पाठः ।

पं० १० क० पु० इत्युक्तक्रमेणेति पाठः ।