पृष्ठम्:महार्थमञ्जरी.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
महार्थमञ्जरी

तृत्वादिरूपस्यात्मनः स्पष्टापरोक्षीकारविपर्यया त्मानं संशयातङ्कं तिरस्करोति, तत उक्तरूपस्व हृदयपरामर्शलाम, इति शाक्तश्चायमुपायः --उ चारादिव्यतिरेकेण स्वसंविद्विकल्पमात्राकार त्वात् । यदुक्तम्

'उच्चाररहितं वस्तु चेतसैव विचिन्तयन् ।
यं समावेशमामोति शाक्तः सोऽत्राभिधीयते ।।'

इति। अथ सोमोऽपानः, प्राणः सूर्य :- इति प्रसि द्धम् , तयोर्द्वादशान्तावृदयान्तं हृदयावादशान्तं चास्तम्-इति भावे निष्ठा' असनं क्षेपनं स्फुरणं गतयोर्या मध्यावस्थातुटिः- बाह्याभ्यन्तरभावो पलक्ष्यमाणताहक्परामर्शक्रियात्मचमत्कारलक्षणा, सा त्रुटितव्या-हृदयंगमीभावपर्यन्तमात्मनो निर्णेतव्यमिति यावत् । अयमाशयः-अशेषशरी रसाधारण्येन नित्योदितस्वभावयोः स्वात्मपरि स्पन्दपरमार्थयोः प्राणापानयोर्युगपदुभयविसर्गा रणीरूपतापरामर्शः स्वतः सिद्धोऽपि स्वहृदया ह्लादचमत्कारस्थैर्योत्पादनार्थमात्मन्यनुसंधेयः यु-