पृष्ठम्:महार्थमञ्जरी.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
महार्थमञ्जरी

स्पष्टतया प्रत्यक्षीकारचमत्कारनिश्चयास्पदं कर्तुं

यदीच्छा युष्माकमुपासकानाम्

 'श्रद्धामयोऽयं पुरुषो यो यच्छूद्धः स एव सः ।'

इति श्रीमद्भगवद्गीतास्थित्या काचिद्वाञ्छा विजृ म्भते चेत्तर्हि अयमुपाय इति वक्ष्यमाणसर्वा र्थसाधारणोऽयमन्वयप्रकारः, तत्र यावेतौ सोम सूर्ययोर्वेद्यवर्गानुप्राणनत्वात् वेदितृत्वस्वभावत्वाच्च सकारहकारात्मानौ वर्णविशेषो तयोरस्तं-विस र्जनीयसुहृदयसंपुटीकारलक्षणमनुस्वारं च गतयो रश्नुवानयोर्या मध्यमा तुटिः-विभज्यावस्थान लक्षणः कालखण्डः स त्रुटितव्यः- माणिक्यमा लिन्यादिवदुद्धर्तव्यः, तदानीं 'ह-अं-स' इति विमर्श उत्पद्यते । अयं भावः -- यद्यपि मातृका पीठादौ ह इति स इति चान्यवर्णसाधारण्येन अनयोर्ग्रहणमस्ति तथापि तद्द्वयहृदयवर्तिना है स' इति स्वात्मप्रत्यभिज्ञानोपायत्वेन 'हंस'


पं०२ख० पु. उपसनानामिति पाठः ।