पृष्ठम्:महार्थमञ्जरी.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
श्रीमन्महेश्वरानन्दविरचिता

यदि निजहृदयोल्लासं
 निर्णतुं नित्यनिष्कलमिच्छा।
मध्यर्तुटिस्युटितव्या
 अस्तङ्गतयोः सोमसूर्ययोस्तर्हि

 यदि निजं यत्स्वसाक्षात्कारोल्लेखयोग्यं हृदयं व्याख्यातस्वभावं तस्योल्लासश्च - इत्यचेतयितृ त्वादिवैचित्र्येण स्फुरणं, स प्रकृत्या कालविभाग व्युदासेन निष्कलो-हेयोपादेयत्वाद्यशेषविकल्प कल्पनाकलङ्कशून्यो भवति, तमेवंविधमत्यन्त


३८ मध्चतुटिरिति । तदुक्तम्

'ज्ञातारं मां ज्ञानं शक्तिरिव नितयवज्ज्ञेयम् ।
अविभकं भावयतः सोऽहं सा तवयं तच्च ॥
वेद्यं स्वक्रमसिद्धां वित्तिमनुप्रविशदङ्गविषयाद्यम् ।
वेदितरि वित्तिमुखतो लीनं तल्लक्षणं भवति ॥'

इति । अन्न च टीकाकाराशयानुसारेण सोऽहम् इति - अहं सः, सोऽहम् , हंस इत्येतत्पदत्रयच्छेदम् अविच्छिन्नविच्छिन्नविच्छिन्नविच्छिन्नविमर्शा- स्मक बोध्यम् । 16