पृष्ठम्:महार्थमञ्जरी.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
श्रीमन्महेश्वरानन्दविरचिता

स्मरगादेवश्यंभावात् । संविदां च तासामन्यो न्यानुसंधानसामर्थ्यं न संभवति-स्वयं प्रकाश त्वात, तथा-भावे चान्यपरामर्शानौचित्यात्, तदन्यवार्तानभिज्ञानामासामनुसंधानक्षमः कश्चि त्स्थैर्यशाली विद्यते- इत्यनिवार्येयं मर्यादा ।

'नित्यश्चात्मावगन्तव्यः कालक्रमविवर्जनात् ।
सर्वलोकयसिद्धेयं तत्तद्युक्तिरुदीर्यते ॥
प्रसवानन्तरं बालो जनन्याः स्तनमापिबन् ।
स्तनाद्यर्थक्रियां चैव स्मर्ता चेति विकल्प्यते ।।
स्मृतिश्चानुभवायत्ता सा च नानास्ति जन्मनि ।
ततः प्राचीनया माव्यमनुभूत्या कदाचन ॥
सामानाधिकरण्यं च प्रायो विद्वद्भिरिष्यते ।
अत आत्मा सदा स्थैर्यानित्योऽसाविति बुद्ध्यताम्।।'

इत्याद्युक्तनयेन ॥ ५३॥


३६ अन्योन्यानुसंधानेति, तदुक्तम् श्रीप्रत्यभिज्ञायाम्

'एक्मन्योन्यभिमानामपरस्परवेदिनाम् ।
झानानामधुसंधानजन्मा नश्यजनस्थितिः ।
न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः ।
स्थादेकश्चिद्वपुज्ञानस्मृत्यपोहनशक्तिमान् ॥

इति । ग