पृष्ठम्:महार्थमञ्जरी.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
महर्थमञरी

 अत्रायमाशयः-यत्किमपि कामं भावरूपम भावरूपं वा वस्तु, यस्मिन्कस्मिंश्चिद्वर्तमाने भवि ष्यदादौ वा काले, तथा पुरो-वर्तिनि अनासन्ने वा देशे, येन केनापि सभागात्मना विभागस्व भावेन वा वपुषा, विद्यते वा न वा इति ? न वि द्यते इति तावन्न शक्येत वक्तुं-शून्यत्वप्रसङ्गात्, प्रपञ्चस्य शून्यत्वपक्षश्च पूर्वमेवाधिक्षिप्तः, तत्र यत्किंचिद्वस्तु विद्यते एव- इति वक्तव्यम् , तदा च सत्स्वभावतया 'अयमात्मा परिस्फुरति' इति कथमस्य स्थैर्यमुच्छिद्येत, आत्मनो विश्वाकार त्वाङ्गीकारे विश्ववर्तिनां क्षणभङ्गाभ्युपगमेऽपि योऽयं क्षणभङ्गो नाम कश्चिदर्थः तस्य तावदन पह्नव एव, इति-तावन्मात्रेणापि तन्मयस्याप्या त्मनः स्थैर्यमव्याकुलम् किमुत विश्वस्यैव स्थैर्ये समर्थ्यमाने इति, अनुभवविकल्पस्मरणलक्षणाने कसंघद्यानुसंधानसाध्या हि लोकयात्रा-स्तम्भं पश्य कुम्भमानय इत्यादी तत्तच्छब्दार्थसंकेतानु-


पं १७ ख० पु० संकेतानुभूत्यनुस्मरणेति पाठः ।