पृष्ठम्:महार्थमञ्जरी.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
श्रीमन्महेश्वरानन्दविरचिता

सामरस्यं, स्थैर्याभावपक्षे कथं संगच्छेत? इत्या शंक्य, क्षणभङ्गमेव वक्तुमाह

 यकिबि जेण केण वि
रूपेण जहिं कहिं वि किं णंथ ।
 तां अंपा णिवि
अविरो खणभङ्गो च्छेअ अंविरो होत


 यत्किमपि येन केनापि
रूपेण यत्र कुत्रापि किं नास्ति ।
 तस्मादात्मा नित्यः
स्थिरः क्षणभङ्ग एव स्थिरो भवति


 ३५ अन्न चायमाशयः - व्यवहारकाले क्रियाशक्तियोगलक्षणसर्वाका रनिराकारस्वभावस्थात्मनः नानाजातिव्यक्तयः प्रादुर्भवन्ति, तत्रैवं स्थिते सति कस्सिश्चिस्सामान्य कस्यांचित् व्यक्तौ च ध्वंसोन्मुखायां संपन्नायामपि तदात्मकत्वेन क्षणभङ्गुरत्वेऽभ्युपगतेऽपि अपरसामान्यव्यक्तयः स्थिता एवेति नित्यत्वस्थिरत्वेऽपि अभ्युपगते आत्मनि - इति व्यवहारकालविष यमेव नित्यत्वानित्यत्वं न परमार्थसत्ताविषयमिति ।