पृष्ठम्:महार्थमञ्जरी.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
महार्थमञ्जरी

नत्वा नित्यविशुद्धौ
 गुरोश्चरणौ महाप्रकाशस्य ।
ग्रथ्नाति महार्थमञ्जरी
 मिमां सुरभिं महेश्वरानन्दः ॥१॥

 इह खलु सर्वस्यापि जनस्य उपास्यतया का चित् देवता अस्त्येव, इति एतावति तावत् न विप्रतिपत्तिः, केवल तस्या नामरूपादिव्यपदेश मात्रवैषम्यं यावद्युक्तिपर्यालोचनायां स्वात्मसंवि त्स्फुरत्तामात्रस्वभावा इति 'प्रकाश एव विश्वस्य उपास्यदेवता' इति आपतितम् तस्य महत्त्वं 'सा स्फुरत्ता' इत्यादिप्रत्यभिज्ञोक्तनीत्या सर्व संकल्पोल्लङ्घितया स्फुरत्तैकस्वरूपत्वम् । स च गुरुः-- गृणाति प्रकाशयति विश्वव्यवहारमिति गुरुः इति निरुक्त्या सर्वानुग्राहकः, तादृक्प्र काशव्यतिरेके विश्वस्य अन्धबधिरत्वादिप्रायत्वा पत्तेः, स च पर्यन्ततः परशिवभट्टारकापरपर्या-