पृष्ठम्:महार्थमञ्जरी.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीमन्महेश्वरानन्दविरचिता

यत्वात् आत्मरूपो महान्प्रमाता । यदाह शिव सूत्रेषु

गुरुरुपायः' (२-६)

इति । तस्य चरणौ ज्ञानक्रियालक्षणं स्वातन्त्र्यं, चर्यते गम्यते प्राप्यते बुद्धयते भक्ष्यते च आभ्यां विश्वम् इति हि चरणावित्युच्यते, तौ नत्वा उत्कर्षकस्य आरूढतया विमृश्य, वाङ्मनः कायानां, तदेकविषयीकरणलक्षणप्रह्वीभावो हि नमनं महाप्रकाशत्वं च परमेश्वरस्य महान् उ त्कर्षः, तं प्रति तदुपासकस्य. प्रह्वीभावश्च इति द्वितयमपि चोक्तम् । अत एव नत्वा इति परमे श्वरप्रणामिकयोत्तरकालं 'महेश्वरानन्द' इत्यु क्तम् । स च महेश्वरानन्दो महार्थमञ्जरी ग्रथ्ना ति-ग्रन्थसंदर्भद्वारा लोकम् अनुभावयतीत्यर्थः । मञ्जर्यपि हि पृथक् पुष्पभेदप्रतिभासेऽपि एका कारेण अनुभूयते, ग्रथनं च पुष्पादेरपि अनाया सग्रहणोपायतया प्रसिद्धं, सा च सुरभिः-सर्वा-