परिमलोपेता । इति श्रीमत्स्तोत्रावलिस्थित्या तस्य सा शक्तिः कियती भवतु एता- वयेतादृशी वेति कथं परिच्छेतुं पार्यंत इति । इत्थं च विप्रतिपन्नजनापे- क्षया भगवतो विश्वशरीरत्वमनुमानेन प्रसाध्य ततोऽयं तस्यैश्वर्योत्कर्ष उपपादितः । सम्प्रतिपत्तौ तु प्रत्युत तथैव शक्त्या तद्विश्वशरीरत्वम् । तदुक्तं श्रीशिवसूत्रेषु - 'शक्तिसन्धाने शरीरोत्पत्तिः' इति 'स्वशक्तिप्र चयो विश्वम्' इति च । एवं चात्मनो विश्वशरीरता परामरीशून्यतामात्र- निबन्धनं वहिविभूतिस्पन्दानुमत्युत्सवस्तमित्यत् । अन्यथा पिण्ड इवा- ण्डेऽपि सर्वत्र स्वस्य स्वातन्त्र्यशक्तिरपरोक्षमुपलक्ष्येत । यदुक्तं श्रीवि रूपाक्षपञ्चाशिकाय. "देहेऽस्मितया यद्वज्जडयोरास्फालनं मिथो वाहोः । इच्छामात्रेणेत्थं गिर्योरपि तद्वशाज्जगति ॥" इति ॥ २९ ॥ ननु विश्वशरीरतया परमेश्वरस्य शक्त्युच्छ्रायोपकल्पनं चेत् क्रि- यते, तर्हि विश्वसँहारे तस्य शक्तिशून्यताप्रसङ्ग इत्याशङ्कयाह - बीलुम्मेलदसाए देखिअणाहरस जन्तियों पसरी । कळळावस्थाए ठिओ बीसणिमेसे वि तत्तिओ होइ । विश्वोन्मेषदशायां देशिकनाथस्य यावान् घसरः । कललावस्थमा स्थितोऽपि विश्वनिमेषेऽपि तावान् भवति ।। इति । देशिकतया सर्वानुग्राहकतया नाथ्यमानस्य परमेश्वरस्य सा काचिदुन्मेषनिमेषयौगपद्यलक्षणा शक्तिरस्ति । तत्र च स्वरूपोन्मेषे विश्वनिमेषः विश्वोन्मेषे च स्वरूपनिमेप इति द्वितयमपि तुलतिदुत्पथ- ते । ततश्च विश्वात्मको विश्वोत्तीर्णश्च परमेश्वर इत्यवटाटङ्क सङ्केतौचित्यम् (१) उपपाद्यते । तयोश्च नित्यमन्योन्य सापेक्षत्वादेकतरव्युदासशङ्कायामन्यत- रभङ्गप्रसङ्ग इत्युभयोरपि समप्राधान्येन परिौचित्यम् । तदुक्तं मयैव श्रीपरास्तोत्रे - www ४ १. 'वैस्य स्व' ग. पाठ: ३. 'विश्वनिमे’, ३. 'रूपोन्मेषः' ख. पाठः 'लावधू' क. पाठ:
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/९५
दिखावट