पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी ननु बहनो हि पुराणागनीदिशविद्या प्रमातारा, बहुतराध सं- प्रति प्रत्यक्षमवेक्ष्यमाणाः | तेषु न कस्यचिदप्येताध्वी शक्तिरस्ति, यादृक् परमेश्वराभिमते प्रख्याप्यत इत्याशडयाह- तिलमसे कि सरी रेल कीडल्स एन्तिई सत्ती । सा सन्दअतिरियो बीजसरीरस्थ केसिई होउ || तिलमात्रेऽपि शरीरे मे कीवस्यैतावती शक्तिः । सा स्वच्छन्दमियो विश्वसरीरस्य कियती भवतु || इति । परमेश्वरो हि विश्वशरीर इत्यागमेष्वाख्यायते । यदुक्तं श्रीशिवसूत्रेषु - 'दृश्यं शरीरम्' इति । यथा च श्रीविरूपाक्षपञ्चा- शिकायां. "विमतिपदम ! सर्व मम चैतन्यात्मनः शरीरमिदम् । शून्यपदाशीलावधि दृश्यत्वात् पिण्डवत् सिद्धम् ॥" इति । तच्च तस्य स्वच्छन्दशीकत्वात् स्वेनामीयेन छन्देनेच्छाशक्त्या श्रीर्यथाभिलपितमैश्वर्यं यस्येति कृत्वा । विश्वशरीरतया च तस्य सर्वाति- शायिनी सा काचिच्छक्तिस्कल्प्यते । स्वशरीरानुगुणशक्तिकत्वं चान्य- त्रापि दृष्टम् | यथा तिलप्रमाणशरीरो यूकादिः कीटविशेषस्तच्छरीरौचि- सेन तदाधिक्येन वा शक्तिमतयोपलक्ष्यत इति । प्रन्ययोजना तु-परमा- णुव्यणुकादिसन्निवेशास्तावदासतां प्राणिविशेषाः तेषानप्रत्यक्षत्वाद् दृष्टा- न्तस्याहृदयङ्गमीभावत्रसङ्गात् । यः पुनर्यूकादिः कीटस्तस्य शरीरं तावत् तिलसदृशसन्निवेशनम् | तावत्यपि तस्य शक्तिः कितीति प्रेक्षध्वम् । परिस्फुरणपरिभ्रमणादिभेदादनेकरूपा खनुभूयते । लोदप्रत्ययो बहुवचनं च तत्रार्थ प्रामाण्यं स्पमुदायितुम् । (तत्मादिति ?) । एतद्द्दृष्टान्ता- भ्युपगमे " “त्वद्धाम्नि विश्ववन्द्येऽस्मिन् नियतिक्रीडने सति । तव नाथ ! कियान् भूयानानन्दरससंष्ठवः ॥" ७. 'तत्त्वं चा', १ पे तत्र त क. न. पाठः, ३. 'कीडितेस' ख. पाठः