परिमलोपेता । म्यति । ततश्चानुत्तरहकाराभ्यां तत्पर्यन्तैपठितेन विन्दुहारकेणच सह प्रत्याहारक्रमात् सर्वसंवित्समावेशलक्षणः कश्चिदहमिति परामर्श उदेति । यो 'महादानुसन्धानान्मन्त्रवीर्यानुभवः' इति 'मातृकाचक्रसंम्बोधः' इति च श्रीशिवसूत्रेषूपदिश्यते । यथोक्तं श्रीकण्ठीयसंहितायाम् - "आदिमान्तविहनिास्तु मन्त्राः स्युः शरदभ्रवत् । गुरोर्लक्षणमेतावदादिमान्तं निवेदयेत् ॥” यथाचास्मद्गुरुभिः श्रीसंवित्स्तोत्रे - "आदिमान्तिमगृहीतवर्णराश्यात्मिकाहमिति या स्वतः प्रथा | मन्त्रवीर्यमिति साधिताग मैस्तन्मयो गुरुरसि त्वमम्बिके ! ॥" इति । वीरसंबन्धी हि धर्मो वीर्यमित्युच्यते । तत्र वीरो नाम विविधमी- रयति विश्ववैचित्र्यमिति भगवान् शब्दराशिभट्टारक उच्यते । तदुक्तं श्रीमच्चिद्गगनचन्द्रिकायाम् -- on "ईरणेन विविधेन वीरतां योऽयमक्षरगणः प्रपद्यते ।” इति । श्रीप्रभाकौले च 'वामे वीराः समाख्याताः' इति । एतच्च “सर्वेषामेव मन्त्राणां विद्यानां च यशस्विनि ! | इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा ॥" इति श्रीत्रिंशिकाशास्त्र उन्मीलितम् ॥ २६ ॥ PREZIDE नन्वध्वानो हि षाडति आगमेषु प्रसिद्धाः । तत्र तत्रैवातात्मा क- श्चिदेवांशः । अन्यत्र तु कथमुक्तार्थोपपत्तिरित्याकाङ्क्षां क्षपयन् प्रकृतगाथा- यास्तात्पर्याथमाह - जं अत्थाण अ छक्कं तत्थ पआसत्थळक्खणं अर्द्ध । विमरिससद्दसहावं अद्धं ति सिवस्स जामकुळ्ळासो ॥ यदध्वनां च षट्कं तत्र प्रकाशार्थलक्षणमर्धम् । विमर्शशब्दस्वभावमर्धमिति शिवस्य यामलोल्लासः ॥ 'ते' क. पाठः• ९. 'सम्भोगः इ', ३. 'भाकोमळे' ग. पाढः, ४. 'स्वप्रमाता' ख. पाठः,
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/८९
दिखावट