पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी विश्ववैचित्र्यसंयोजनवियोजन वैदग्ध्यशालिनः परमशिवभट्टारकस्य शक्तिः स्वातन्त्र्यलक्षणा महती तत्त्वानामन्योन्यप्रयोज्यप्रयोजकभावे पर्यन्ततः सामान्यप्रयोजकत्वे च प्रगल्भा भवत्युज्जृम्भते पृथिव्यादि भाववर्गमिवा- नाश्रितशिवभट्टारकमपि क्रोडीकृत्याभिवर्धते तद्रूपतया परिस्फुरतीत्यर्थः । यथा च पर्यन्त पञ्चाशिकायां -- "चित्स्वाभाव्यादसौ देवः स्वात्मना विमृशन् प्रभुः । अनाश्रितादिभूम्यन्ता भूमिकाः प्रतिपद्यते ॥” इति । सा च विमर्शसंरम्भमयी विमर्शाख्यो यः संरम्भः स्वान्तःस्फुरत्कि- याशक्तिस्फाररूपः तेन प्रकृतेत्यर्थः । सो चिदानन्देच्छाज्ञानक्रियारूपश- क्तिपञ्चकसामरस्यस्वभावेत्याख्यायते । ततश्च परमेश्वर परामर्शप्रसरपरिपा- टीपाटवपरमार्थमेतदखिलं तत्त्वपरम्परा परिस्फुरणप्राचुर्योज्ज्वलं विश्वविजू- म्भावैचित्र्यमिति तात्पर्यार्थः । यथोक्तं श्रीप्रत्यभिज्ञाहृदये- 'चितिः स्वत- न्त्रा विश्वसिद्धिहेतुः' इति । सोऽयं स्वात्मसात्कृताशेषषत्रिंशत्तत्त्वकलापो महान् परमशिवभट्टारकाह्वयः प्रमाता सप्तत्रिंशतया स्वीक्रियते । तस्य ताग्रूपतापि पर्यन्ततो विकल्पकक्ष्यामनुप्रविशति । अविकल्पात्मना च भाव्यं विश्वोत्तरेणेत्यतोऽत्राप्यविकल्पवृत्तिरष्टात्रिंशः कश्चिदागमेष्वङ्गीकि- यते । यदुक्तं श्रीतन्त्रवटधानिकायां - n ca " षट्त्रिंशत्तत्त्वपर्याय स्तदभिन्नः परः शिवः | उपदेश्यतया सोऽपि स्यादवच्छेदभागतः || अष्टात्रिंशं परं धाम यत्रेदं विश्वकं स्फुरेत् ।।" इति । किञ्च शम्भुरनानुत्तरात्मा तस्य तादृशी शक्तिश्च तदविभिन्नस्वभा- वा स्वरसमुदायमयी विसर्गापरपर्यायेति वर्णक्रमानुगुण्येन व्याख्या | सा चानुत्तरानन्दे (च्छो ? च्छेश) नोन्मेषोनताभिरिच्छाया ईर्शनस्य च क्रमाद- स्थैर्यभेदाच चतुष्प्रकारैर्वेद्योल्लासैरिच्छोन्मेषयोरीशनोनतयो श्वानुत्तरानन्दा- भ्यामुभाभ्यां सह सन्धानोपारूढौ द्वौ, पुनस्तत्संहितौ च द्वाविति चतुर्भि- रुक्ताशेषवेयवर्गवासनांत्मा विन्दुना चोन्मिषन्ती तत्रैवानुत्तरतत्त्वान्तर्विश्रा- 1. 'दि' ग. पाठ:. १. 'या' क. पाठः ३. 'मशम्भुभ' क. ख. पाठ:. ४. 'जीव' क. पाठ:. ५. 'र्यालोचनानन्तरं तदभिन्नः' ख. ग. पाठ: ६. 'रमशि' ग. पाठ.. ७. 'ने' ख. ग. पाउः ८. 'खना | तस्य च' ग. पाठः, ९. 'र्यमस्यै- १०. 'नात्मना वि' क. पाठः, ये से,