सामग्री पर जाएँ

पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थनअरी - इति । अध्वानो हि पडित्यागमेषु प्रसिद्धम् | तेच वर्णाः पदानि मन्त्राः कलाः तत्त्वानि भुवनानीत्याख्यायन्ते । तत्र वर्णाः पञ्चाशलो- कप्रसिद्धाः | पदान्यानन्त्येऽपि व्योमव्याप्यादिमन्त्रमर्याद वैकाशीतिः । म न्त्राश्च तद्वदानन्त्येऽपि त्रपञ्चकमङ्गपटकं चेति संकोचदृष्ट्या एकादश कला निवृत्यादयः पञ्च तत्त्वान्युक्तरूपाणि षट्त्रिंशत् । भुवनानि च कालाग्निरुद्रादन्यिनाश्रितान्तानीति चतुर्विंशत्यधिकं शतद्वयम् । एतद खिलमपि कलापञ्चकेन कोडीक्रियते । तथाहि – निवृत्तौ कलायां क्षकार एको वर्णः अष्टाविंशतिः पदानि । हृदयघोजातौ मन्त्रौ । पृथिवी तत्त्वमेकम् । कालाभिरुद्रादीनि भद्रकाल्यन्तान्यष्टोत्तरशतं भुव- नानि । प्रतिष्ठायां हादयष्टान्ता वर्णात्रयोविंशतिः । एकविंशतिः पदानि । शिरोवामदेवौ मन्त्रौ । असत्त्वादीनि प्रकृत्यन्तानि त्रयोविंशतिस्तत्त्वानि | अमरेशादीनि श्रीकण्ठान्तानि च षट्पञ्चाशद् भुवनानि । विद्यायां आदिघान्ताः सप्त वर्णाः । विंशतिः पदानि । शिखांघोरश्चेति मन्त्रद्वयम् | पुरुषप्रभृतीनि मायापर्यन्तानि सप्त तत्त्वानि | भीमादीन्यङ्गुष्ठमात्रान्तानि च सप्तविंशतिर्भुवनानि । शान्तौ तु गखकास्त्रयो वर्णाः । पदान्येकादश । कवचतत्पुरुषौ मन्त्रौ | शुद्धविद्येश्वरसदाशिवास्त्रीणि तत्त्वानि । वामा- दिसदाशिवान्तमष्टादश भुवनानि । शान्त्यतीतायां च वर्णाः षोडश स्वराः । पदमेकम् । (शिवः १) ईशानः नेत्रमस्त्रमिति मन्त्रत्रयम् । शिवस्तत्त्वमेकं यः शक्तिस्वभाव इत्याम्नायते । निवृत्त्यादीन्यनाश्रि- तान्तानि पञ्चदश भुवनानीति विवेकः । एतच्च सिद्धान्तादितन्त्रे- घ्वत्यन्तं वितत्योपपादितमिति संक्षेपेणोक्तम् । एवञ्च सति यदेतदध्व- नामुक्तरूपाणां पट्कं, तत्र यदेकमधं भुवनतत्त्वकलास्वभावम् । अन्यत् तु मन्त्रपदवर्णात्मकम् । प्रत्येकं च स्थूलसूक्ष्मपरप्रक्रियया त्रैविध्यम् । तत्र प्रथममभिधेयं भूतं द्वितीयमभिधानकारकमिति विभागः । तथा च सति वाच्यवर्गः सर्वोऽपि प्रकाशपरमार्थः, वाचकोल्लेखस्तु विमर्शवपुरिति शिवस्य प्रकाशविमर्शात्मनः परमेश्वरस्य यामलः उभयविसर्गारणिस्वभाव उल्लासः | उन्मेषनिमेषशक्तिद्वितययौगपद्यानुभूतिचमत्कार इत्यर्थः । यथा पर्यन्तपञ्चाशिकायाम् - - १. 'या' ग. पाठः, १. 'नः अत्र' ख. ग. पाठः, ग. पाठ:. ३.. 'धानाकारमि'