पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ल्पहेतुर्मन इति प्रत्येकं लक्षणस्। अयमर्थः - अहङ्कारादीन्यात्मनोऽन्तः- करणानि न केवलं बहिरवलोकितान् विषयानन्तरंतु आवयन्ति, किं तर्हि, स्वसंक्रान्तया प्रमातृचिच्छतयां तं बहिवर्तिनमखिलमपि वेधवर्ग विष- यीभावयोग्यतानुप्रवेशनार्थ प्रकाशमानस्वभावतापादनात्मकपावनीकरणयु- त्या जिघत्सितौषधाद्यभिमन्त्रणन्यायेनानुगृजन्तीति कलोलायमानानीति | एतानि हि हृदयमहाम्बुराशौ महातरङ्गाः । ज्ञानकर्मेन्द्रियाणि तु तर- ज्ञानुतरङ्गन्यायमनुवर्तन्त इत्यर्धः । एषां च विभूतिपरिपन्दप्राचुर्यमन- न्तरमेवात्यन्तं वितत्य व्याख्यातम् ॥ २१ ॥ ३ अथ ज्ञानेन्द्रियाण्युन्मुद्रयति - W हिअअअस्स विरुणो विसआळोओ विशिशखळो होइ । णाणन्दिअदीवेसुं णिअणिअगोलग्गणिच्चळग्गेसुं ॥ २२ ॥ हृदयस्थितस्य बिभोविंचयालोको विवृद्धलो भवति । ज्ञानेन्द्रियदीपेषु निजानेजगोलाग्रनित्यलभेषु || इति । विभोः परमस्वातन्त्र्यशालिनः स्वशक्त्यवच्छना शेषदेशकाल. स्वभावस्य महाप्रकाशस्य तदुचितं किञ्चित् सर्वोत्कृष्टं स्थानमस्ति, यहृदयं नाम । यदुक्तं श्रीप्रत्यभिज्ञायां - "सैषा सारतया चोक्ता हृदयं परमेष्ठिनः" इति । तत्रावस्थितस्य चास्य बाह्यानां शब्दस्पर्शीदीनां विषयाणां य आलोकः आ समन्ताल्लोकनं साकल्यतः स्वान्तश्चर्वणचातुर्य, स विश्व- झुलो भवति बहिर्भावस्वभावैनियन्त्रणातिकान्तो भवति । अत्र चैतदेव निबन्धनं, यद् ज्ञानप्रवाना नामिन्द्रियाणां प्रकाशकेत्त्रप्रकर्षेण प्रदीपप्रायाणां ये निजनिजाः तत्तदसाधारणा गोलाः श्रवणशकुल्यादयः, तद्ग्रेषु बहि- विषयौन्मुख्यानुगुणेषु प्रदेशेषु सार्वकालिकं लशं स्फुरतयावस्थानमिति । तानि च श्रोत्रं त्वक् चक्षुजिंहा प्राणमिति पञ्चधा भिद्यन्ते । शब्दस्पर्शरूपर- सगन्धानां ग्राह्याणां क्रमेण ग्रहणोपकरणत्वमेषां लक्षणम् ॥ २२ ॥ १. 'रमनु' क. ख. पाठः, २. 'क्त्यान्तर्बहि' क. पाठः १. 'निह', ४. 'वा' ग. पाठः. १५. 'तत्त्वप्र' क.. पाठः,