पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | अथ कर्मेन्द्रियाण्युन्मीलयति - C होन्ति कळणाइ पञ्च खु कम्मपहाणाई कोअणाहस्व । फन्दह सेरं जेहिं जणो जडादो विळक्वणो होन्तो ॥ २३ ॥ भवन्ति करणानि पञ्च खलु कर्ममधानानि लोकनाथस्य | स्पन्दते स्वैरं यैर्जनो जडादू विलक्षणो भवन् || लोकस्य जडाजडविभागेनावलोक्यमानस्य विश्वस्य यो नाथः सृष्ट्या- दिनिर्वाहकतया स्वामी तस्य कर्मप्रधानानि ज्ञानेन्द्रियाणां क्रियास्पर्शेऽपि ज्ञानप्राचुर्यवद् ज्ञानानुषऽपि क्रियाशक्तयुल्षणानि पञ्चेन्द्रियाणि भवन्ति । खलु प्रसिद्धौ | यैर्निमित्तभूतैः जनो जननमरणापतोऽपि जविवर्ग: जडात् स्तम्भकुम्भादेः परिच्छिन्नप्रकाशादर्थाद् व्यतिरेकमश्नुवानः स्पन्दते ईष- चलति, तत्तदिन्द्रियप्राप्यादर्थादुपरि न किञ्चिच्चलेति । तावच्चलति । स्वैरमिति | स्वस्यात्मीयस्योपकरणस्य प्रेरणं यथा भवति तथेत्यर्थः । ता- दृक् स्वातन्त्र्यमेव चास्यापरिच्छिन्न प्रकाशत्वम् । तानि च वाक्पाणिपाद- पायूपस्था इति विभिद्यन्ते । तल्लक्षणं च क्रमाद् वचनादानविहरणविस- र्गानन्दात्मकक्रियासाधनत्वम् । अत्रैवं विवेकः- अन्तःकरण वर्गेऽस्मिन्नहंकारोऽभिमानभूः | सहकारितया गृहन्नन्थीमनसोईयम् || प्रवर्तयति कर्तॄणां बहिर्ज्ञानं क्रियामपि । क्रमादेतद्वयाक्रान्त्या ज्ञानकर्मेन्द्रियप्रथा || तत्र ज्ञानप्रधानं सच्चक्षुरायुपपादितम् । कायप्रवृत्त्यभावेऽपि विषयग्रहणक्षमम् || कर्मोत्तरेषु तेष्वेवँ विशेषः परिकीर्त्यते । क्रिया हि हानमादानमिति द्वेधानुभूयते ॥ बाह्याभ्यन्तरभावेन द्वैविध्यं तद्वयोरपि । बाह्यतायां तयोः पायुहीनप्राधान्यभाग् भवेत् ।। ‘लति स्वै' क. पाठः. २. 'मेवास्या', ३. 'नई' ग. पाठ.. यद्धर्मकरणे द्वयम् ॥', ५. 'क', ६. 'क' क. पाठः, K ४. 'हन्