महामारी सात्त्विकत्वादिभेदेन तदा त्रैविष्यवृच्छति । तत्र शब्दस्पर्शरूपरसगन्धा इति क्रमात् || साविकः स्वेन रूपेण प्रथते भोग्यवस्तुषु । राजसस्तु विजृम्भेत वचनादानधावनैः ॥ विसर्गानन्दनाभ्यां च पञ्चभिः स्वस्वभाववान् | तामसोऽपि खवाय्वनिपाथोभूमिस्वलक्षणैः ॥ भूतैर्वपुष्मान् प्रथते विश्वोपादानहेतुभिः । किञ्च त्रैविध्यवत्यस्मिन्नहंकाराह्वये पदे ।। विभूतिविभ्रमोत्कर्षात् त्रिधा विततिरिष्यते । पुण्येच्छा तत्त्वजिज्ञासा लोकोत्तीर्णार्थगृध्नुता ॥ वस्तुष्वव्यवसाय: श्रीध: संकल्पविकल्पिनी | शान्तिदान्त्यादिमित्रस्य सात्त्विकस्य विजृम्भितम् || श्रोत्रत्वगक्षिरसनाघ्राणेन्द्रियमयीं दशाम् । राजसस्याहुरैश्वर्यं हर्षर्भात्यादिदायिनँः ॥ वाणी पाणिरथो पादः पायूपस्थमिति क्रमात् । मोहालस्यादिसुहृदस्तामसस्य परिच्छदः ॥ अथ या महती सिद्धि: प्रसूता प्रस्तुतद्वयात् । तस्याः पञ्चविधा स्फूर्जा साधकेष्वनुभूयते ॥ यथेप्सितशरीराप्तिः प्रवेशोऽन्यस्य वर्ष्माणि । दूरध्वयानायानं च दूरश्रवणदर्शनम् || अदृश्यकरणं चेति तत्प्रकार: प्रतीयताम् । पुण्यक्रियेति काप्यस्ति विश्वोत्पत्त्यै स्थितिस्तयोः || वीर्य गाम्भीर्यमैश्वर्य भोक्तृत्वं दातृतेत्यपि । तस्याः प्रथनवैचित्र्यं यलुभ्यं भाग्यशालिभिः || इत्थं तत्रैव चिन्नाडी ज्ञानसूत्रमिति स्मृता । चित्रपद्मशिवाख्याश्च शक्त्यात्माभिहिते अपि ॥ नाडीः पञ्च प्रपञ्चेऽस्मिन् प्रसुवाना प्रवर्तते । १. 'र्षा त्रि' क. ग. पाठः, ४. 'अस्य क्रि', ५. 'तस्यैव' क. पाठः. २. 'हासादि' क. ख. पाठ: ३. 'नीम्',
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/८०
दिखावट