परिमलोपैता । कलाविधे रागकाली नियतिस्तत्र पञ्चमी । प्राणोऽपानः समानः स्यादुदानो व्यान इत्यपि || शरीरयात्रोपक्षीणः पुरुषे शक्तिसङ्ग्रहः । प्रकृतौ तु गुणाः सत्त्वं रज तम इलपि । विकृत्यविकृती तदुच्यन्ते पन्च रोचियः । श्रयैतयोः मुम्बकृत्योः स्फुरणक्रियया भवेत् || वक्ष्यमाणसशेषेण विश्ववैचित्र्यकल्पनम् । तत्प्रकारोऽपि विधिवद् वितत्य प्रतिपाद्यते ॥ पुम्प्रकृत्योः समुद्योगाद् धातुरालेति जायते । त्वगसमसमे दोस्थिमज्जाशुलायैरयस् || वातपित्तकफाख्यैश्च स्वांशोधोतैर्विजृम्भते । अनयोरेव संचट्टादू यो मनो धीरहंक्रिया || इत्यन्तः करणोल्लास वैविध्ये नाजुभूयते । तत्र बुद्धयुधमाद् धर्मो ज्ञानं वैराग्यमित्यपि ॥ ऐश्वर्य वरदत्वं चेत्युन्मीलति विचित्रता । क्रमादेतद्विपर्यासो मनसः शिल्पमिष्यते ।। मदीयत्वीमदीयत्वकार्पण्यमदमत्सराः | अहंकारस्फुरत्ताः स्युः संसारस्फूर्तिहेतवः || तद्वत् तयोविभूलैव गुणाः सत्त्वं रजस्तमः । इति त्रयः प्रतीयन्ते विकृताविकृतोदयाः ।। तत्र सत्त्वस्य सौन्दर्य सौभाग्यं साधुशीलता । सौमुख्यमथ सौजन्यमिति स्फुरणविभ्रमः ॥ वशीकरणमाकर्षः शान्तिः पोषणपालने । इति कर्माणि रजसो गुणस्याहुः परिग्रहम् || अथ विद्वेषणं यत् स्याद् यच्चोच्चाटनमुच्यते । स्तम्भनं मोहनं चेति मारणं चेति यौः क्रियाः ॥ तदेतदखिलं तस्य तमसः क्षोभविभ्रमः । गुणैरेभिरुपस्कारमहंकारो यदाश्नुते ॥ १. 'ते', १. 'ता', ३. 'या किया । त' क. पाठ::
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/७९
दिखावट