महार्थमझरी असौ इति । यदवस्थानुगुण्यादुच्छ्वासनिश्वासादिप्रवर्तकः प्राणः, हानोपादानाचु पयोगी व्यानः, शरीरादिपोषणः समाना, धात्वान्नयन उदानः, विण्मू- श्रादिविसर्जनोऽपान इति तत्तदुधमप्रकाराः प्रख्यायन्ते । यद्यपि शक्तिपाताच भावात् कुम्भकारस्यापि घटकरणे सर्वशक्तिशिवात्मता, तद- परिज्ञानात् तु कुम्भकारतेत्यर्थः इति पदसङ्गतिप्रक्रियया स्वहृदयेन पर- मेश्वरीभावपरामर्शशून्यो भवति । तथापि तत्वदृष्ट्या तस्य परमेश्वरत्व- माम्नायोद्धोपितमवर्जनीयम् । तथाहि परमेश्वरस्य ह्ययमेवासाधारणस्वभावो, यत् सर्वदा सृष्ट्यादिपञ्चकृत्वकारित्वम् | तव्योत्तरत्र व्यक्तमालोचयि- ध्यते । एतदनङ्गीकाराद्धि मायावेदान्तादिनिर्णीतस्यात्मनः स्वस्फुरणामो- दमन्यलक्षणमसत्कल्पत्वमापतितम् । पुरुषचार्य "किन्तु दुर्घटकारित्वात् स्वाच्छन्यान्निर्मलादसौ | स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः ।।" इति श्रीतन्त्रालोकस्थित्या मायापथावतीर्णोऽपि परमेश्वरवत् सर्वदा पञ्चापि कृत्यानि करोति । यतोऽस्य न कस्याम्चिदस्यवस्थायां संवित्संस्कारवन्ध्य- त्वम् । सुषुप्त्यौदावाप्यौत्तरकालिका बोधानुसन्धानबलादन्तर्मनं किञ्चि- लोकयात्राव्यवहारविजृम्भणं सूक्ष्ममुपलक्षणीयम् । केवलमवस्थान्तरेषु सं- विदस्तारतम्यमेव भेदः । तदुक्तं श्रीस्पन्दे- "जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलब्धृतः ॥” इति । तदुत्तरत्र 'जोई जाअरलिविणअ' इत्यत्र स्पष्टीकरिष्यते । ततश्च सं- विस्वातन्त्र्य सारस्यास्य स्तम्भाधवलोकनावस्थायां यदा स्तम्भावलोकनौ- न्मुख्यं, तदा तस्य सृष्टिः । कुम्भादिवैलक्षण्येनावलोक्यमानतया सृष्टि- रनेनैवेति कृत्वा तत्रैव यदा द्वित्रंक्षणमात्र मवस्थास्नुता, तदा तस्य स्थितिः । पदार्थानां तत्तद्रूपतया धार्यमाणत्वस्य स्थितितयोक्तत्वात् । यदा कुम्भा १. 'नेता उ' ग. पाठः. २. 'सावेझ' क. पाठः ३. 'ता' ख. 'त्र स्प' क. पाठः ५. 'तस्सवि' ग. पाठः, ६. त्रि क. ग. पाठः. ख. पाठः.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/७०
दिखावट