पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । दिभावान्तरानुप्रवेशोन्मुख्य, तदा स्तम्भस्य संहारः कुम्भस्य सृष्टिश्च । यदा पुनः स्तम्भपरित्यागत्य कुम्भानुप्रवेशस्य च मध्यस्थावस्था, तदा तुरीय- सत्ता | वेधोपरागशून्यतया शुद्धसंविन्मयत्वात् । यदुक्तं मयैव श्रीकोमल- वल्लीस्तवे - “ज्ञातमेकमवमुच्य चेतसो भावमन्यमवगाडमिच्छतः । १ अन्तरालभुवमम्बा लम्बिनीमामनन्ति तव तत्त्वमद्वयम् ॥" इति । उक्तसर्वक्रमानुस्यूता तदुल्लङ्घनक्षमा च स्वात्मगता संविच्छक्ति- र्भासयति । यद्वा स्तम्भावनुसन्धाने तं प्रति यदा स्तम्भत्वावधारणं, तदा तस्य दारुमयत्वादिकं न्यग्भवति । दारुमयत्वाद्यवधारणे च, स्तम्भ- त्वस्य न्यक्कार इति एकतरसृष्टिरन्यतरसंहारश्चेति व्यक्तमुपलक्ष्यते । स्त- म्भत्वदारुमयत्वादि मेलकॅपरामर्श तु स्थितिः प्रतीतिद्वयस्यापि न्यग्भा- वाभावात् । स्तम्भत्वाद्यशेषविकल्पोपशान्तौ अनाख्या, स्वात्मस्फुरतायाः परामर्शे भासेति सृष्ट्यादित्रकारो द्रष्टव्यः । तत्रैव च यदा स्तम्भं नियत- देशकालाकारतयावलोकयति, तदाँ तदाभासांशेनात्य स्रष्टृता । अनैतद्देश- कालाद्याभासांशेन तस्य संहर्तृता | स्तम्भादिसामान्यांशेन तु स्थापकता । अविकल्पांवलोकने तुरीयानुभवितृत्वम् । प्रकाशैक्येन प्रकाशने पुनरनुगृ- हीतृता चेति सिद्धमस्य स्वहृदयङ्गमीभाव विनापि यौगपद्येन सुष्ट्यादिपञ्च- कृत्यकारित्वलक्षणमैश्वर्यम् । अत एव हि संकुचितस्वभावोऽप्यसौ तत्त्व- वृत्त्या विकसितत्वात् पुरुष इति व्यपदिश्यते । यच्छ्रतिः – 'तेनेदं पूर्ण- पुरुषेण सर्वम्' इति । श्रीचिद्भगनचन्द्रिकायां च – 'पूरणात् पुरुषता- मुपेयुषी' ति | कृत्यपञ्चके च परमेश्वरस्य सृष्टिस्थितिसंहारेषु त्रिषु न क्वचि- दपि वैषम्यम् । उपरितनयोः पुनः यदा व्यामोद्यमानपशुजनापेक्षया स मयभ्रंशापादनादिरूपमेतच्चित्तस्य व्याकुलीकरणं, यदा च कारुण्योत्कर्षा- देतद्दोषव्युदासेनास्य भूयः स्वरूपलाभप्रदायित्वं तदा तिरोधानमनुग्रह- श्चेति तत्कृत्यद्वयं व्यपदिश्यते । यदा पुनः, रु १. 'वेशनौन्मु', २. 'न' ग. पाठः, ३. 'रत्तया प’ क. पाठः ४० 'शों क. ग. पाठ: ५. 'वे' क. पाठः, ६. 'दाभा' ग. पाठ: ७. 'ल्पानुभवनेsव' ख. ग. पाठः.