इत्याक्षिप्य, परिमलोपेता । वह्विर्ज्ञातोऽथवाज्ञातः प्रकाशं जनयेन्न किम् अज्ञातं न सुवर्ण किं तदा किमुपलं भवेत् ॥" "सत्यमेव तथापीह सुवर्ण ज्ञातमात्रकम् । मूल्यादिनोपभोगाय दानार्थमुपयुज्यते ॥ चिन्तामणिरविज्ञातो भवेचिन्तामणिः स्फुटम् । तथापि कार्यभोगार्थमज्ञातः केन वॉयते ।।" इत्यादिनोपपादितम् । एतच्च पुरस्तादप्युद्धाटयिष्यते । एवं च स्वात्मनः परमेश्वरतया परामशीत्, परमेश्वरस्य च वर्मग्रार्केप्रमाणप्राबल्याद् विश्व- शरीरतयाङ्गीकारात्, संसार चाकित्यादेश स्वर्गनरकादिवैचित्र्यवद् विश्वा- न्तर्भावेनोपलभ्यमानत्वात्, शरीरिणश्च शरीरं प्रत्यहम्भावभावनोत्कर्षा- दभेदानुभवैकभाजनत्वात्, · "परमेश्वर ! तेषु तेषु कृच्छ्रेष्वपि नामोपनमत्स्वहं अवेयम् । न परं गतभीस्त्वदङ्गसङ्गादुपजाताधिकसंमदोऽपि यावत् ॥” इति श्रीमत्स्तोत्रावलिस्थित्या महेश्वराद्वैतसंविदाहादामृतमहाहदावगाहच- मत्कारचर्वण चातुर्यमेव पर्यवस्थति। न पुनर्वन्धमोक्षादिविकल्पविक्षोभात- ङ्ककलङ्कशङ्काप्यत्र संपद्यते । यच्छति: – 'तरति शोकमात्मवित्' इति । यथा च श्रीमदनुभवस्तोत्रे - B “त्वं पृथग्विगतवाद्यसंग्रमस्तिष्ठसीश्वर ! यदात्मचित्यलम् । •लूनमूलकलनैः कुतस्तदा गम्यतामतनुमायिता गुणैः ॥” इति । एवं स्थितेऽपि "यथा नृपः सार्वभौमः प्रभावामोदेबृंहितः । क्रीडन् करोति पादातधर्मीस्तद्धर्मधर्मतः ।। तथा प्रभुः प्रमोदात्मा कीडत्येवं तथा तथा ।” इति श्रीशिवदृष्टिदिष्ट्या स्वात्मस्वातन्त्र्योल्लासात् स्वहृदयपरामर्शशून्यत्वं च केषाश्चित् संभवति, येन संसारादिविभागव्यवहारः । यथा श्रुतिः – 'अदे- वाद् देवः प्र च ता गुहा यन्' इत्यादि । अत्र च श्रीचिद्गनचन्द्रिका - १. 'श्यं', २. 'न', ३. 'वा', ४. 'कप्राव' क. पाठः. ५. 'दभावितः', ६. 'दृष्टया' ग. पाठः,
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/४५
दिखावट