पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृदुहामभिलवन्नहन्तया डक्कियावपुरहविक्रयात् पदात् । सन्तमेमि समभावदं शिवं सख्यहानिरमुना हि सूतये ॥" महार्थमञ्जरी इति । यथा च समाधिपञ्चदश्यां "यदेतस्यापरिज्ञानं तत् स्वातन्त्र्योपकल्पितम् । स एव खलु संसारो जडानां यस्तु भीषणः ॥" इति । श्रीसर्ववीरभट्टारकेऽपि इति । मोक्षोपाये च J “अज्ञानाते लोकस्ततः सृष्टिश्च संहृतिः । मन्त्राः शिवात्मकाः सर्वे सर्वे वर्णाः शिवात्मकाः ।।" g “स्वापरामर्शमात्रोऽयमपराधः कियानसौ । तावन्मात्रेण तज्जातं यद् वक्तुं नैव पार्यते || " इति । उक्तरूपार्थपरिज्ञानमेव मोक्षः, तद्विपर्ययश्च बन्ध इयलमतिप्रप- ञ्चेन ॥ ८ ॥ , नन्वात्मनो विमर्शमयः कश्चिद् विशेषः संसाराद्यशेषक्लेशोपशमन- सामर्थ्यशालितयोन्मीलितः । स च तस्योस्फुटस्वभावस्य स्पुटीकारात्मे- त्यवधार्यते । न च तत्रास्फुटत्वशङ्काप्यवतरितुमर्हति, अत्यन्तस्फुटतयोपपा- दितत्वात् । ततः प्रमाणप्रमेयव्यवहारविकल्पस्यानुपयोगोऽत्र वितत्य व्या ख्यात इत्याशङ्कयाह- माणिक्कपदेओ दिअ णिओलिओ णिअमऊहळेहाए । पडिभाइ कोइआणं अच्चतफुडो वि अप्फुडो अप्पा ॥ ९ ॥ माणिक्यप्रवेक इव निचोळितो निजमयूखलेखया । प्रतिभाति लौकिकानामत्यन्तस्फुटोऽप्यस्फुट आत्मा ॥ इति । आत्मरूपो हि परमेश्वरः प्रकाशोत्कर्षवत्त्वादशेषभुवनव्या- पनक्षमत्वाच्च विश्वविकल्पकल्पनामयीमर्चिः प्ररोहपरम्परामुपर्युपर्युन्मीलयन्, 'तत् सृङ्घा तदेवानुप्राविशदि'त्युपनिषत्प्रक्रियया तथैव निचोलितः कञ्चु- १. 'क्षोये', २. 'स्य' क. पाठ: ३. 'तू । प्र' ग. पाठ:.