पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ महार्थमञ्जरी इति न्यायाद् बन्ध एव नास्ति । कुतो मोक्षः कुतस्तरां तदिच्छा । अस्ति- त्वे वा सैव क्रियाशक्तिपर्यन्तमुज्जृम्भत इति विमर्शस्य तदिच्छायाश्च पर्यन्ततो भेदाभावात् प्राप्य एवार्थोऽधिकार इत्युक्तं भवतीति ॥ ६ ॥ - ननु प्रमाणाधिकारिविभागाद्यनुपयोगे विधिनिषेधयोरेव वैयर्थ्य स्याद्, विपर्यये बाधाभावादित्याशङ्कच तयोः स्वरूप मुन्मीलयति - जत्थ रुई तत्थ विही जत्थ इसा ण त्थि तत्थ अ जिसेहो । इअ अह्माण विवेओ हिअअपरि पदमन्तसत्थाणं ॥ ७ ॥ यत्र रुचिस्तत्र विधिर्यत्रेयं नास्ति तत्र च निषेधः । इत्यस्माकं विवेको हृदयपरिस्पन्दमात्रशास्त्राणाम् || इति । यदेतदस्तीति ज्ञानलक्षणो विधिर्नास्तीति ज्ञानस्वभावो निषे- धश्च चोदनार्थः । तत्र सन्ध्योपास्त्यादौ विधिः, कलमक्षणादौ निषेध थे- त्युच्यते । तत्रेदमालोचनीयम् । अनुष्ठातॄणां प्रवृत्तिनिवृत्तिप्रयोजनतया हि विधिनिषेधयोर्व्यापारः । ‘अज्ञातज्ञापकत्वे सत्यप्रवृत्तप्रवर्तको विधिरि'त्यु- क्तत्वात् । तत्र किं तज्ज्ञानमात्रेण ते प्रवर्तन्ते निवर्तन्ते च, उत स्वेच्छानु- गुण्यात् । यदि ज्ञानमात्रेण, सन्ध्यानुपासकः कलञ्जभक्षको वाँ न कश्चिदा- लोक्येत । यदि तु स्वेच्छानुगुण्यात्, तदनुष्ठातॄणां रुचिमेव विधिनिषेधावनु- वर्तेते इत्यर्थो भवति । ततश्च तेषां सन्ध्योपासनादावर्थे यत्र रुचिस्तत्र विधिः, यत्र वा कलञ्जभक्षणादौ न रुचिस्तत्र च निषेध इत्यनया भङ्गया सन्ध्योपासनादविवारुचिश्चेत् तत्र च निषेधः, कलञ्जभक्षणादावेव चेद् रुचिस्तत्र च विधिरित्यर्थतत्त्वनिश्चयः स्यात् । इत्युक्तक्रमेणास्माकं पार- मेश्वरविमर्शपर्यायपूर्णोऽहम्भावभूषितानां विवेको विधिनिषेधयोस्तात्पर्यतो निष्कर्षः । एतादृशे च तत्त्वनिश्चये तदेव नः शास्त्रं, यत् सर्वसंवित्संघ- ट्टनात्मनी स्वहृदयस्य परितः पृथिव्यादितत्त्वपरम्पराकोडीकारप्रावीण्येन स्पन्दः परामर्शात्मा चमत्कारः । पारमेश्वरः परामर्श एव ह्यागम इति प्रा- ७. 9. 'किं ज्ञान, २. 'वा क' ग. पाठः. ३. 'वें संघ', ४, ‘नः’ क. पाठः.