पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । २३ गप्यवोचाम | तदनुष्ठातृणामिच्छाशक्तिरेव प्रवृत्तिनिवृत्त्यौन्मुख्याद् वि- धिर्निषेध इति व्यपदेशभेदमनुभवतीति यावत् । यदुक्तं संवित्प्रकाशे – “त्यागः शक्यक्रियो यस्य स हेय इति निश्चितः । त्यक्तुं न शक्यते यच तदुपादेयमित्यपि ॥" इति । मया चोक्तं संविदुल्लासे "प्रामाणिकी विधिनिषेधकथा यदि स्यात् पर्यन्ततः परम एव शिवः प्रमाणम् । सर्वोत्तरः स खलु तत्र विधिं निषिद्धे कर्तुं क्षमेत विहिते च विभुर्निषेधम् ।।” इति । एतेन श्रुतिस्मृत्यादेरप्यस्मत्तत्रस्य प्रामाण्योत्कर्षो व्याख्यातः । य- थोक्तं श्रीभगवद्गीतासु - “एवं त्रयी धर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते" इति । “बैगुण्यविषया वेदा निश्चैगुण्यो भवार्जुन ! " इति च । यथा श्रीविज्ञानभैरवे - "किब्चिज्जैर्या स्मृता शुद्धिः सा शुद्धिः शम्भुदर्शने । न शुचिर्ह्यशुचिस्तस्मानिर्विकल्पो भवेन्नरः ॥” इति । यथा च श्रीकालिकामते ‘ पतन्ति जन्तवो येन कर्मणा नरके ध्रुवम् । उत्पतन्ति च तेनैव त्रिकालज्ञा भवन्ति च ॥” एतदाशयेनैव हि श्रीविज्ञानेन्द्रकौमुद्यां- "मनो यत्रैव विश्रान्त्या पूर्णभावमुपाश्नुते । अतः परं हि किं नाम शुभक्षेत्रं भविष्यति ॥ " इति पुण्यक्षेत्रादिलक्षणमुन्मीलितम् । एतेन - 9. क. पाठ:. 'रः श्री' क. पाठः, २. ‘व श्रीकुलाज्ञा' ग. पाठः. ३. 'श्राज्ञा'