पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यपदार्थोन्मुख्याविनाभूतादात्मवैमुख्यादेव हेतोरयमत्राधिकारी न त्वय- मिति यो विभ्रमो विशिष्टो भ्रमः विलासरूपत्वादप्रामाणिको व्यवहारो वा स भवतु | तत्सद्भावे वयं न प्रतिबन्धारः । अतिसर्गे लोट् । ततश्च तेषा- मुपालम्भनीयतां च द्योत्यते । यदुक्तमाचार्याभिनवगुप्तपादैः- परिमलोपेता । “आत्मानमनभिज्ञाय विवेक्तुं योऽन्यदिच्छति । तेन भौतेन किं वाच्यं प्रश्नेऽस्मिन् को भवानिति ॥” कोऽपीति । अस्मन्मर्यादायां भावान्तरस्यात्मव्यतिरेकस्फुरणमात्रे सत्यपि पर्यन्ततस्तन्मयताया एवावधारणादात्मनो व्यतिरिक्तः कोऽपि भाव इत्य- युक्तैव वाचोयुक्तिः । यदुक्तं संवित्प्रकाशे - "यदिदं दृश्यते किञ्चिद् दर्शनात् तन्न भियते । दर्शनं द्रभृतो नान्यद् द्रष्टैव हि ततो जगत् ॥” इति । आगमेsपि -- www. "यावन्न वेदका एते तावद्वेद्याः कथं प्रिये ! " इति । अथाप्युपरि कथ्यत इत्यर्थः । येषां पुनः स्वात्मन एव भावः स्वा- तन्त्र्यस्वभावः कश्चिदतिशयितो धर्मो विम्रष्टव्यतयावतिष्ठते, तेषामात्मौ- मुख्यशालिनां न कदाचिदप्ययमधिकारिविभागव्याक्षेपः । एतदुक्तं भ वति – ज्योतिष्टोमादयो हि विभावनीया अर्था विभावयितॄन् प्रमातॄन् प्रति पृथग्भावेन प्रसिद्धाः । अतस्तेषां स्वर्गकामत्यादिरधिकारिविभागः कश्चित् संगच्छेत । येषां पुनरात्मस्वरूपमेव निरूपणीयं, तेषां नैरात्म्य- शङ्कायामस्त्वनाधिकारित्वम् । तदभावाच कथमधिकारितारतम्यमिति । एतेनेहामुत्रार्थभोगविरागाद्यपि नाधिकारिवैशिष्ट्यायेति व्याख्यातं, यत इहामुत्रार्थ भोगोद्रेक एव मोक्षः पुरुषार्थात्मनः स्वात्मविमर्शस्य प्रयोजन- तथा प्रतिपादयिष्यते । तर्हि मुमुक्षुत्वमस्त्वधिकार इति चेद्, न । "वस्तुस्थित्यां न बन्धोऽस्ति तदभावान्न मुक्तता | विकल्पघटितावेतावुभावपि न किञ्चन ॥” ९. 'ता यो', २. 'न्मुख्यं तद्विना न' क. पाठः.