पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी रिण्यनवस्थेत्यप्रामाण्यमेव । माणिक्यादिपरीक्षावत् त्रिचतुरकक्ष्याविश्रा- न्तौ तु सैव सक्कोचाय कल्पते । यदि पुनः 'आगमस्त्वन वच्छिन्न प्रकाशा- त्मकमाहेश्वरविमर्शपरमार्थ' इत्याचार्याभिनवगुप्तोक्तस्थित्या परत्रमातृवि- मर्शशक्तिमयतयायमङ्गीक्रियते तदानीमसौ तस्य स्वात्मनः स्वभावभूते प्रकाशे प्रदीपोल्लेख इन तमःस्थगिते स्तम्भकुम्भादावभिव्यञ्जकतया कञ्चि- चमत्कारमुपजनयति । तत्रापि यथा दीपौलोकेन ध्वान्तगर्भवर्तिनां स्त- म्भादीनामारोहपरिणाहादिस्वभाव उन्मील्यते तद्वदस्यापि स्वात्मनो यन्माहात्म्यमनवच्छिन्नस्वभावत्वं, स्वव्यतिरिक्ताशेषभुवनाक्षाद्यनुप्राणन- क्षमत्वं, विश्वतदुर्त्तीर्णत्वलक्षणस्वलक्षणद्वितय सामरस्यसम्पत्पात्रत्वं, तत् किमप्यलौकिकं तत्त्वमागमेनोन्मुद्यते । यदुक्तमाचार्याभिनवगुप्तपादै:- - डुं "यं प्राप्य सर्वागमसिन्धुसङ्घपूर्णत्वमभ्येति कृतार्थतां च । तं नौम्यहं शाम्भवतत्त्वचिन्तारलौघसारं परमागमाब्धिम् ॥” इति । अथ यदि शाखाशिखायां शशाङ्कमण्डलमित्यादिवदुपचारादत्र प्र माणव्यवहारकौतूहलं, तदा स्वस्मिन्नात्मनि प्रत्यक्षं परत्रानुमानं सर्व- त्रागम इत्यलं तन्त्रान्तरपान्थघण्टापथप्रस्थानेन ॥ ५ ॥ ननु प्रमाणपथातिवृत्तं चेदिदमात्मतत्त्वं, तत् सर्वोऽपि जनस्तद्वि- मर्श प्रत्यधिकारी न कश्चिद् वा स्यादप्रमितत्वाविशेषादित्याशङ्कय नात्र कश्चिदधिकारिविभागक्लेश इत्याह- www. जाणं णिरूवणिजो वहरिको को पि अप्पणो भावो । अप्पविमुहाण ताणं अहिआरिविहाअविन्समो होउ ॥ ६ ॥ येषां निरूपणीयो व्यतिरिक्तः कोऽप्यात्मनो भावः । आत्मविमुखानां तेषामधिकारिविभागविभ्रमो भवतु || इति । इह येषां पुंसां स्वात्मरूपात् परमेश्वराद् व्यतिरिक्तो भवन् कश्चिज्ज्योतिष्टोमादिः पदार्थों निरूपणीयो विभावनीयो भवति, तेषाम- १. 'त्यप्रमाणमे', २. 'पावलो' ग. पाठः,