पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । तत्र प्रमाणं पृच्छयेत कीदृग् वोत्तरमुच्यताम् । अगोचरः प्रमाणानामत आत्मा महेश्वरः ॥ यदुक्तं श्रीप्रत्यभिज्ञायां - - "प्रमातरि पुराणे तु सर्वदाभातविग्रहे । किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥” इति । तथाचोपनिषत् –– “विज्ञातारमरे केन विजानीयात्" इति । - "स्वपदा स्वशिरश्छायां यदूलचितुमीहते । पादोद्देशे शिरो न स्यात् तथेयं वैन्दवी कला ||” इति । श्रीतन्त्रालोकेऽपि - क. पाठ.. "प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते । • तेषामपि परो जीवः स एव परमेश्वरैः ॥" इति । उक्तमर्थं दृष्टान्तदृष्ट्या प्रतिपादयति कस्य वेत्यादि । गाङ्गो हि प्रवाहः शैत्यप्रसादाद्यनेकगुणोत्कर्षादन्तवहिस्ता पापहारप्रवीणो भवति । तत्रैव सर्वाङ्गीणाप्लवपूर्वकमघमर्पणाद्यवस्थासु को नाम नरस्तृषितः स्यात् । न कश्चिदपि तथा स्यादिति यावत् | पिपासेत्यनेन गङ्गास्रोतोनिमग्नस्या यदि कस्यचित् सलिलपानेच्छा, कस्तत्र पातुं प्रत्यूह इति प्रत्याययता दाष्ट न्तिकेsपि स्थले विश्वव्यवहारनिबन्धनं परमेश्वरं प्रति प्रमाणजिज्ञासायां प्रत्यक्षादीनि सर्वाण्यपि प्रमाणानि सम्भवन्ति, न पुनरेषामंत्र काचिदपे क्षेत्युद्भाव्यते । एतेन "तन्वादि बुद्धिमत्कर्तृ सन्निवेशविशेषवत् । घटवद् यदनेवं तन्नैवं खपरमाणुवत् ॥” इत्यादिप्रमाणोपपादनोपक्षीणस्येश्वरसिद्ध्यादेः प्रबन्धस्य प्रवृत्तिवैफल्यश- ङ्काकलङ्कोऽप्युट्टङ्कित इत्यवगन्तव्यम् ॥ ३ ॥ ननु स्तम्भकुम्भादिवदात्मनः प्रकाशो न कदाचिदपि स्फुटतयोप- लभ्यते । अस्फुटे चार्थे प्रमाणव्यापारेणैवावतरितव्यमित्याशङ्कयाह – २. 'र: उ', ३. 'स्तापहरप्र', ४. 'कोहि ना' १. 'नी त' ग. पाठ: D १७ www