पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी ताब्धिकल्पमेक स्वभावमात्मतत्त्वं प्रत्यस्य व्यापार एव नोपपद्यत इत्यर्थः । न कोऽप्यर्थयत इति । आत्मनि प्रमाणमिच्छिन्नात्मा स्यान्न वा । यद्य- नात्मा जडवर्गः, तत्प्रमाणापेक्षैव नोपपद्यते। आत्मैव चेत्, तर्हि स्वस्मिन् स्वयमेव प्रमाणमपेक्षते इत्यापतेत् । यदाहुः - “अख्यातिर्यदि न ख्यातिः ख्यातिरेवावशिष्यते । ख्यातिश्चेत् ख्यातिरूपत्वात् ख्यातिरेवावशिष्यते ॥” इति । प्रमातृतास्पदे तत्र प्रमाणं नोपयुज्यते । करणात् कर्तुराधिक्य मन्यैरभ्युपगम्यते ॥ स्वतन्त्रः खलु कर्तेति शाब्दिकैरप्युदीर्यते । तच्च स्वातन्त्र्यमन्येभ्यः कारकेभ्यः प्रधानता ॥ यत्प्रभावात् प्रमाणानां प्रमाणत्वव्यवस्थितिः । तत्रैव तदपेक्षेति न किं व्यर्थं वचो भवेत् ॥ लौकिकानां प्रमाणानामना श्वासाद्धि यौक्तिकैः । ईश्वरस्य प्रमाणत्वं प्रमातृत्वेऽप्युदाहृतम् || प्रमातरि प्रमाणं किमिति पृच्छन् प्रमातृताम् । विजहाति न वा नायः प्रश्नस्यानुपपत्तितः ॥ न द्वितीयश्च कैल्पः स्यात् प्रमाणं किमु विस्फुरेत् । इति हि प्रश्नतात्पर्य तत्रात्मन्यैक्यसम्मतौ ॥ मयि त्वयीति भेदोऽयं न कदाचन युज्यते । नानात्मत्वे स्वविषयं प्रमाणं प्रति भावना | पृच्छयते प्रतिवादीति महन्मौख्यं प्रसज्यते । भ्रान्ति श्वेदात्मनि भ्रान्त्या बुद्धे रज्जुभुजङ्गवत् || वाच्यं प्रमाणमित्येतदुन्मत्तवचनायते । अथ नास्त्येव मे तत्र प्रतीतिरिति कथ्यते ॥ १. 'प्युपपद्यते', १. 'कश्चित् स्या', ३. मयि स्फु' क. पाठः- ४. 'ता' ग. पाठ:..