पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । आत्मा खल विश्वमूलं तत्र प्रमाणं न कोऽप्यर्थयते । कस्य वा भवति पिपासा गङ्गास्त्रोतास निमनस्य || १५ इति । इहात्मैव हि प्रकाशस्वभावत्वाद् विश्वव्यवहारे निबन्धनं, ममावभासते मयावलोक्यत इति प्रमातृप्रकाशोपश्लेषेणैव स्तम्भकुम्भादीनां प्रकाशमानत्वात् । तद्व्यतिरेके च तेषां स्तम्भ एव कुम्भः कुम्भ एव स्तम्भ इत्यनयोरन्योन्यं स्वलक्षणापहारोपक्रमे न कस्यचिदपि नियन्तृत्वमिति स्त- म्भरूपेण स्तम्भः किं भवत्यस्तम्भो वेति सन्देहो वा तस्याप्यैसम्भवो वेति सर्वथा तूष्णीम्भाव एवं स्वभावः स्याद् भुवनव्यवहारस्य । यदि च स्तम्भादिरूपतयैव तेषां प्रकाशमानत्वं न पुनः प्रमातृप्रकाशानुग्रहात्मा क- श्चिदतिशयः, तर्हि सर्वेषामपि तथा प्रकाशेरन्, न वा कस्यचिदपीति प्र- मातृणां व्यवहारोच्छेदप्रसङ्गः । किञ्च स्तम्भकुम्भाद्यात्मनो विश्वस्य स्वा- त्मनैव प्रकाशमानताङ्गीकारे सर्वस्यापि प्रमातृवर्गस्य सार्वज्ञ्यमत्यन्ताज्ञत्वं वा प्रसज्येत, नियामकाभावात् । तस्मादात्मनो जगद्व्यवहारप्रयोजकत्वम- निच्छताप्यङ्गीकार्यम् । प्रयोज्यप्रयोजकभावश्च पर्यन्ततोऽनयोस्तादात्म्य - मेव पर्यवसाययिष्यतीत्यात्मप्रकाशमयोऽयं विश्ववर्तिवेद्यवर्गोल्लास इत्याप- तितम् । यदुक्तं श्रीप्रत्यभिज्ञायां - - "प्रागिवार्थोऽप्रकाशः स्यात् प्रकाशात्मतया विना । न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता ॥” इति । खलुरविप्रतिपत्तौ । एवं स्थिते तत्रैवात्मनीदमेताहगिति वस्तुव्यव- स्थापकत्वलक्षणं स्वाभासँविशेषं प्रमाणं प्रति पण्डितस्य वा पामरस्य वा न कस्यचिदपेक्षोत्पद्यते, प्रमातृप्रकाशाद व्यतिरेकात् । प्रत्युत तेनैव व्यव स्थाप्यमानत्वाच्च प्रमाणस्य । प्रमाणं हि नाम नवनवोदयः स्वाभासवि- शेषः । सोऽपि स्वाभासोऽभिनव इत्युक्तत्वात् । नवनवोदयत्वं च तेस्य तत्तद्देशकालोपश्लेषावच्छिद्यमानान्योन्यविलक्षणप्रमेयद्वारोपारूढः कश्चिद्वि- शेषः । न पुनः स्वाभाविको धर्म इत्यवधीरिताखिलविकल्पविक्षोभमक्षुभि- १. 'वि', १. 'न्य' ग. पाठ:● ३. 'प्यस्तम्भतेति', ४. 'दि इत', ५. 'त्वं पु' क. पाठः ६. 'र्ती' ग. पाठः, ७. 'व', ८. 'वोदय ३', 'तत्त' क. पाठः,