पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४. महार्थमञ्जरी "गीतादिविषयाखादसमसौख्यैकतात्मनः । योगिनस्तन्मयत्वेन मनोरूढिस्तदात्मता ॥" इत्याद्युपायतयोपपाद्यते । स्मार्तादयोऽप्यत्र नात्यन्तं विसंवदन्ते । य- "वीणावादनतत्त्वज्ञैः स्वरशास्त्र विशारदः । तालज्ञश्चाप्रयासेने मोक्षमार्ग निगच्छति ॥ " इति । वर्धतामिति लोट्प्रत्ययायुक्त्या " ख्यातिमपूर्णां पूर्णख्यातिसमावेशदार्ढ्यतः क्षपय । सृज भुवनानि यथेच्छं स्थापय हर तिरय भासय च ॥" इत्यादिवदुपायोपेयभावं द्योतयन्त्या परमेश्वरस्यात्यन्तदुर्घटघटनप्रागल्भ्य- लक्षणं स्वातन्त्र्यमासूत्र्यते । यदनेन दर्शनान्तरप्रणेतृमनीषया संसार- निबन्धनत्वेनोपकल्पितः शब्दस्पर्शादिविषयविक्षोभो जीवन्मुक्तिलक्षणाहा- दस्वभावं स्वात्मनो विमर्श प्रत्युपायतयोपदिश्यते । तथाच तन्त्रान्ते व क्ष्यते ---- "ओ संसारसुहेळळी ओ सुळहं मोक्खमग्गसोहग्गम् " इति । अस्य चोपायोपयभावस्याव्यभिचारस्वभावसामरस्योद्भावनाय या- वगति यतितव्यमिति नीत्या वाक़्यद्वयैक्यावभासत्मना तन्त्रापरपर्यायेण लेषेणोपन्यासः । एवमत्राभिधेयं प्रयोजनं तत्प्रयोजनं च वितत्योन्मी- लितम् । पार्यन्तिकं तु प्रयोजनं 'हिअअट्टाणपरूढो' इति प्रपञ्चाय- प्यते ॥ २ ॥ ननूक्तयुक्त्या विम्रष्टव्यः कश्चित् कर्तृविशेषः कुलालादिवद् न कु- त्रचिदपरोक्षमुपलक्ष्यते । अनुमेयत्वादौ तु तत्र प्रमाणाधीना हि वस्तु - स्थितिरिति स्थित्या तादृक किञ्चित् प्रमाणं वक्तव्यम् । तदनुक्तौ च त स्यांसत्कल्पत्वापत्तिरित्याशङ्कयाह - अत्ता खु वीसमूळं तत्थ पमाणं ण को वि अत्थे । कस्स व होइ पिपासा गंगासोत्ते णिमग्गस्स ॥ ३ ॥ ‘ज्ञः श्रुतिजातिवि', . 'न योगमा' ग. पाठः 'सनात्म' क. पाठः. ३. 'न्तरे व',