पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | "हंसाः पतन्ति गगने प्रविसार्य पक्षौ स्वौ सर्वदैव किल मानसराजहंस ! अत्यद्भुता तव गतिर्गगने परस्मिन् विक्षेपशून्यमयपक्षयुगं विहाय ॥" इति । करणानां च कर्तृव्यतिरेके कार्यकारित्वानौचित्यात् स्वस्वभावा वसादप्रसङ्गाच्च स्तम्भकुम्भादिपर्यालोचनक्रियायामन्तः कश्चित् कर्तृविशे षोऽप्यर्थत आक्षिप्यते । यदुक्तमस्मत्परमगुरुभिः श्रीसौभाग्यहृदयस्तोत्रे - "नेत्रादिजालकोपान्ते हृत्पद्मासनलीलया । वारं वारं त्वया देवि ! रूपादि मधु सेव्यते ॥” सच वेद्यविकल्पोपरक्तत्वाद् देशकालाद्यवच्छेदमनुभवति । तदवच्छे- दोल्लाङ्घना च भाव्यमलौकिकेन केनचित् प्रमातृविशेषेण । अन्यथा विश्ववैचित्र्यस्यैव विपर्ययप्रसङ्गात् । विश्वव्यवहारो ह्यवच्छिन्नान वच्छिन्न- प्रमातृदयाङ्गीकारादृते न संगच्छते । तत्राकल्पितः प्रमाता स्फुरत्तैकखभा- वतया वेद्यवर्गस्य प्रकाशैकार्णवीभावमुद्भावयति । कल्पितस्तु स्तम्भः कु- म्भ इत्यादिभेदप्रथोपश्लेषणप्रागल्भ्यात् तत्तद्विकल्पविक्षोभस्वभावभावानां व्यवहारविभागमुद्भावयतीत्युभयावश्यम्भावौचित्यम् । एवं च ग्राह्यग्रहणवे- लायामिन्द्रियादिप्रणाडिकया विश्वप्रतिष्ठाभूमिरकृत्रिमः प्रमाता कश्चिदन्त- विग्रष्टव्य इति पारम्पर्यादापतितम् । यथोक्तमजडप्रमातृसिद्धौ - इति, “इदमित्यस्य विच्छिन्नविमरीस्य कृतार्थता । या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ॥” “प्रकाशस्यात्मविश्रान्तिरइम्भावो हि कीर्तितः " इति च । यथा चोक्तमाचार्याभिनवगुप्तपादैः - "स्फुटतरभासमाननी- लसुखादिप्रमात्रन्वेषणद्वारेणैव पारमार्थिकप्रमातृलाभ इहोपदिश्यते” इति । एवमभिप्रायेणैव हि श्रीविज्ञानभैरवे - 'पारम्पारं त्व' क. पाठ:. २. 'दकम' ग. पाठः, ३. 'यसप्र', ४. 'धे', ५. 'वेनौचि' क. पाठः-