पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ महामारी “लोकायतानां दहात्मा शून्यात्मा शून्यवादिनाम् । क्षणात्मा क्षणनिष्ठानां मिन्नात्मा भेददर्शिनाम् || मीमांसिनामपूर्वात्मा ब्रह्मात्मा ब्रह्मवादिनाम् । अद्वैतिनामभेदात्मा बहुना वा किमुच्यते || आक्रीडनं च बालानां स एव परमो गुरुः । स एव च महार्थात्मा मौहार्थिकमनीषिणाम् ॥" इति । तथा च श्रीप्रत्यभिज्ञाहृदये – 'तद्भूमिकाः सर्वदर्शनस्थितयः' इति । अत एव हि “स हि भैरवसिद्धान्तपूर्वपक्षोऽपि यन्मयः" इति पर्यन्तपञ्चाशिकायामुक्तम् । एवं च वस्तुवृत्त्या सिद्धान्तिभिः सर्वैरपि परमेश्वरस्य विश्वात्मकत्वस्वभावमैश्वर्यमेवोद्धोष्यते । यन्मयैवोक्तं श्रीसं- विदुल्लासे- “अन्योन्यमप्रतीकारा बाध्यबाधकभावतः । वदन्ति तव वैश्वात्म्यं वादिविप्रतिपत्तये ॥” इति । एतदुक्तं भवति – बहुविधसिद्धान्तविकल्प्यमानान्योन्यबाध्यबाध कभावेऽपि विश्वावभासे स्तम्भकुम्मादयो भावा आपामरपण्डितं प्रत्यक्षमे- वानुभूयन्ते इँत्यत्र न काचिद् विप्रतिपत्तिः । अनुभूयमानत्वं च तेषामनुभ- वनक्रियाविष्टत्वम् । सा च क्रिया सामान्यानतिलङ्घिस्वभावतया पादपच्छे- दादिरिव परश्वधादिना केनचित् करणविशेषेण विना न संगच्छत इत्ये- तत् तावदङ्गीकार्यम् । ततश्च ग्राह्यग्रहणवेलायां चक्षुराद्यवश्यम्भावः । तदुक्तं मयैव संविदुल्लासे - "अविनाशिनि मङ्गलप्रदीपे मनसि प्रज्वलिते महाप्रकाशे । बहिरिन्द्रियगोलकैर्गवाक्षैरविशेषादवभास्यते त्रिलोकी ॥” इति । चक्षुरादिचक्रं च बहिष्करणमात्रेस्वस्पन्दास्पदत्वादविकलेन्द्रिय- स्यापि प्रमातुरौदासीन्याद्यवस्थास्वर्थावभासासंभवाच्च किञ्चिदन्तःकरण- मपेक्षत इत्येतदप्यवश्याभ्युपगन्तव्यम् । ततश्च मनोविमर्शस्यावर्जनीय- त्वम् । तदुक्तमस्मद्गुरुभिर्मनोनुशासनस्तोत्रे - १. 'दवादिनाम्' ग. पाठ:. २. 'म', ३. 'इति का', ४. 'रादीनि च', ५. 'नास्पद' क. पाठ:-