पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । न पुनः प्रत्यक्षादिप्रमाणोपगृह्यमाणपृथिव्यादिपदार्थपरम्परापरिस्पन्दापलाप- प्रगल्भानीत्याद्यवाक्यार्थः । द्वितीये तु योऽयं महाप्रकाश उक्तलक्षणोऽन- वच्छिन्नः प्रमाता, यद्विमर्शः पुरुषार्थतया अवस्थापयिष्यते, सः, वर्धताम् । मायीयमलोपलेपसंस्कारोच्छेदपर्यन्तमुल्लसतु । सा च वृद्धिर्न कैवल्येन । किं तर्हि । एवमहमलौकिकः कश्चित् प्रमातेति प्रत्यभिज्ञानात्मा यो विमर्शः तेन यद् विच्छ्रेरणं विशेषतोऽन्य प्रकाशवैलक्षण्येन लौकिकसम्बन्धस्वभावा- तिक्रान्त्या तादात्म्यपर्यवसायितयोपश्लेषः, तद्वत्तया निश्चलो निर्गलितोपा- विकलङ्क उद्योतः स्फुरत्ता यस्य तादृशतया वर्धतामित्यर्थः । दर्पणादिप्रकाशा- (नां) हि प्रतिबिम्बादिप्रकाशनक्षमत्वेऽपि प्रमातृप्रकाशसापेक्षत्वादस्त्युपा- घिमत्त्वम् । प्रमातृप्रकाशस्य त्वनन्यमुखप्रेक्षित्वमेवेत्यर्थः । एतदुत्तरत्रापि भ विष्यति । ननु विम्रष्टव्यस्यात्मस्वरूपस्य व्यपदेशनैयत्याभावात् तद्विमर्श प्रत्यसद्भावपर्यवसायी कश्चिदहृदयङ्गमीभावः स्यादित्याशङ्कचाह– संज्ञा- विशेषेत्यादि । यत्र परमप्रमातृविषये, व्यवह्रियमाणानि सर्वाण्यपि शास्त्राणि शिवो विष्णुर्बुद्ध इत्यादिव्यपदेशमात्रव्याटतानि, न पुनरर्थस्वभावात्यन्त- भेदोपपादनप्रवीणानि भवन्ति । तथाहि – चार्वाकास्तावद् भूतान्येव चेतयन्त इति चैतन्यविशिष्टमेव शरीरमात्मानमाचक्षते । 'असदेवेदमग्र आसीदि’त्यभावब्रह्मवादिनः शून्यताभिमानिनो माध्यमिका श्चानाख्यांक - क्ष्यायामिव स्वात्ममात्रस्फुरत्तालक्षणमात्मतत्त्वमाहुः । साङ्ख्यादयस्तु वि ज्ञानाकलप्रायतामस्यामकुर्वते । शब्दब्रह्मवादिनच पश्यन्तीपदाभिमा- निनः श्रीमत्सदाशिवतत्त्वभूतमेनं मन्यन्ते । मीमांसका अपि सुखाद्युपरा- गयोग्यमात्मानं मन्वानाः संवित्स्वभावतामस्य नोपहुवते । नैयायिका- दयो ज्ञानादिगुणगणास्पदमेनमिच्छन्ति । सौगताः पुनर्ज्ञानलक्षणसन्ता- नरूपमेनं संगिरन्ते । एवमन्यत्राप्यूह्यमिति श्रौताश्रौतेषु सर्वेष्वपि सिद्धा- न्तेषु नात्यन्तमत्र विसंवादः । किन्तु स्पृष्टास्पृष्टिकयावस्थानं, तन्निबन्धन- मात्रश्च वादिनामन्योन्यकलहकोलाहलक्लेशः । तदुक्तं मयैव श्रीपादुको- दये – 'अतो विश्वात्मको नाथः' इत्यारभ्य popot १. 'ख्य', २. 'क्ष्यामि' क. पाठः