पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी जं जाणंति जळा अपि जळहारीओ पि जं बिजाणंति । जस्सं च्चिअ जोक्कारो सो कस्स फुडो ण होइ कुळणाहो ॥ यं जानन्ति जला अपि जलहार्योऽपि यं विजानन्ति । यस्यैव नमस्कारः स कस्य स्फुटो न भवति कुलनाथः ॥ १ इति । यं वैश्वात्म्येन प्रसिद्धिमन्तं प्रकाशात्मनो वीरेश्वरा इवानु- द्रितप्रकाशा जडा आभीरादयोऽपि जानन्ति यं च विमर्शमय्यो वारे- श्वर्य इव वैदग्ध्याभासशालिन्यो घटदासीप्रभृतयोऽप्यवबुध्यन्ते । सर्वेषा- मपि स्थूलोऽहं सम्पन्नोऽहमित्यादेः स्वात्मस्फुरणस्य स्फुटमेवोपलभ्यमान- त्वात् । यच्छ्रतिः– 'उतैनं गोपा अडशन् अदृशन्नुदहार्यः' इति । विमर्श- प्राधान्याञ्जलहारीज्ञानं प्रति वैशिष्टयमुक्तम् | ज्ञानशत्नेव प्रमातॄणां क्रिया- शक्त्याप्ययं क्रोडीक्रियत इत्याह- • यस्यैव नमस्कार इति । जडजलहा- र्यादिहिं सर्वोऽपि जीव वर्गस्तत्तत्फलकाङ्ख्या तत्र तत्र नमस्कुर्वाणो ल- क्ष्यते । स सर्वोऽपि नमस्कारो यत्सम्बन्धेनैव भवति, यथा श्रुतिः - 'यस्मै नमस्तच्छिरः' इति । सर्वस्यापि स्वात्मैव देवतेत्यग्रे भविष्यति । यतः, “त्वमेवात्मेश ! सर्वस्य सर्वश्वात्मनि रागवान् " - W इति श्रीमत्स्तोत्रावल्यामुक्तम् । अथ च जडाः स्तम्भकुम्भादयो भावाः जलहार्यः शब्दस्पर्शायादानक्षमा इन्द्रियशक्तयः, तेऽपि यज्जानन्तीति पर- मेश्वरस्य प्राकट्योत्कर्ष उपपाद्यते । यतः स्तम्भकुम्भादयोऽपि तत्तत्प्रमा- तृविषयीकारद्वारा ज्ञान क्रियाश्रयतया निश्चीयन्ते । यदुक्तं – 'द्रष्टैव हि ततो जगद्' इति । कतैवेत्यस्याप्युपलक्षणमेतत् । यत् प्रयुक्तं शम्भ्वै- क्यदीपिकायां – “विश्वमिदं मन्मयं, मत्कार्यत्वात् । यदित्थं, तत् तथा । यथा शरीरम् । इदं च मम कार्य, तस्मान्मन्मयमि”ति । तद्वच्चक्षुरादीन्द्रि- याण्यपि प्रमातृपरिबर्हतयैव तथा तथा भवन्तीति । उक्तरूपश्च स परमे- श्वरः कुलस्य देहाक्षभुवनादेर्विश्वविलासस्य तादात्म्य पर्यवसायितया स्मृ त्यादिनिर्वाहको भवन् कस्य पदार्थस्य स्फुटो न भवति । कस्येति यदि - ३. 'इत्यादि वि'. ४. 'लग्रतो १. 'स्सी विअ', २. 'म' क. पाठः. भ' ग. पाठः ५. 'वदिति तस्य' क. पाठः.