तत्र क्रियायां सुप्तायां विश्रान्तायां च संविदि | इच्छाशक्तिरभूदेका प्रबुद्धा परमेष्ठिनः || प्रशान्तवाद्यसंरम्भ चक्रनालक्ष्य सा तदा । तत्वमर्थस्य निश्चेतुं जमाहान्तः कुतूहलम् ॥ अथ पुष्पाञ्जलिं क्षिप्त्वा सौरभोलान्तषट्पदम् । पाणिभ्यां पचतानाम्यां पस्पर्श पदयोः भुम् || देवोऽपि किञ्चिदुन्मीय चमत्कारोत्तरं ज्वलन् । कारुण्यवर्षिभिः शेयसी तार्मुदक्षत || प्रणिपत्य च सा भूयः कल्पिताखलिकुइमला | शुचिस्मिता स्मरारातिं चभाषे शशिभूषणम् || देव! त्वद्वन्दनादेव गोषितान्यन्यदर्शने | प्राक्प्रत्यगुतरावाचि स्त्रोतांसि श्रुतवत्यहम् ॥ किन्तु प्रष्टव्यमेतन्मे कारुण्यं यदि ते हृदि । किं तत्त्वमत्र सर्वत्र यज्ज्ञानात् पूर्णता भवेत् || इति श्रुखा गिरं देव्याः श्रीमान् स्वच्छन्दभैरवः । मानयन् माननीयां तां पृष्टं सुमुखि सुदिति ॥ पवित्रं स्वहविश्शेष ग्राहयित्वा स्मितोत्तरम् । अन्तर्लक्षे पदे तिछन् बभाषे तत्त्वमौत्तरम् || यथा स्यात् स्वात्मनः स्फूर्तिर्यथा तस्य बहिः प्रथा । यथा च मोहः प्रअश्येद देशिकेन्द्रे प्रसीदति ॥ प्रक्षालितमलचासौ विशुद्धिं स्वां परामृशन् । यथा च नित्यं भुञ्जीत जीवन्मुक्तिचमत्कियाम् || तथा तथा शिवस्तस्याश्चैतन्यमुपवृंयन् । अर्थतत्त्वमुपादिक्षदौत्तरामायसंविदाम् ॥ क्रमशः शृण्वती सा च रहस्यं तत्त्वनिश्चैयम् । विमृशन्ती च विशदं स्वस्पॅन्दानन्दचिन्मयीम् || १. 'मवैक्ष' ख. ग. पाठ:. २. 'क्ष', ३. 'र्ण', ४. 'च्छ' ग. पाठः, ,
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२१४
दिखावट