सामग्री पर जाएँ

पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाठः, 9. परिमलापेता । विश्वस्य स्वात्मनश्चैक्यं प्रत्यभिज्ञायै वास्तवम् । तेन भैरवनाथेन तादात्म्यामोदभागभूत् ।। अथ सा कालयोगेन शिवानन्दस्य धीमतः | शिष्यस्योपादिशद् देवी चिद्वैतस्व निश्चयम् || क्रमेण तच नाथानां परिपाट्या भुवः सलम् । दिव्यसिद्धमनुष्यौघप्रविभागादवातरत् || अवतीर्णाप्यसौ विद्या महार्यक्रमगर्भिणी | योगिनां वदनेष्वेव तिष्ठत्यत्यन्तदुर्लभा ॥ अथ कालक्रमवशाचोळदेशशिरोमणिः । महाप्रकाशो नामासीद् देशिको डक्क्रियोत्तरः || तस्य शिष्योऽभवद् श्रीमान् गोरक्षो नाम वश्यवाक् । महेश्वरानन्द इति प्राप्तपूज्याइयो महान् ॥ अर्चयन् देवतां नित्वं जपन् ध्यायंश्च निश्चलॅम् । पर्यटंच दिशामन्तान् कालं कन्चिदवाइयत् || अथैकदा निशीथिन्यामोसीनो यागमण्डपे । तर्पयित्वा परां देवीं गन्धपुष्पाक्षतासवैः ।। आस्वाद्यानन्दपात्राणि त्रीणि तीव्राणि तन्मनाः | स्वसंरम्भपरामर्शभव्यामनुभवन् प्रथाम् ॥ जागरास्वप्नयोर्मध्यमध्यास्य महतीं दशाम् । दूत्याः स्तनतटोत्सङ्गमपराङ्गेन पीडयन् ।। प्रदीपैः कुशलैरेव प्रदीसैरपरोक्षितः । आस्ते स्म विस्मयाक्रान्तः कल्हारोत्फुल्ललोचनः ।। अत्रान्तरे स्त्रियं काञ्चित् कन्थाशुलकपालिनीम् । स ददर्श किलोलोकां सिन्दूरालङ्कृतालिकाम् || 'त' क. पाठः. ९. 'खा' ग. पाठः. ३. 'ता', ४. 'मागतो या', ६. 'ल' क. पाठः. 'लः' ख. ग.