पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ महार्थमञ्जरी क्तार्थतेत्यभिव्यज्यते । सप्ततीति । योगिन्यो हि सर्वमपि विषयमवगाह्य व्यवहरन्ति । तत् श्रीमत्सतकोटीश्वरीविद्यानुसन्धानवासनानुस्यूतेः "सप्तकोटिर्महामन्त्रा महाकाळीमुखोदताः" इत्याम्नायन्यायादेकैककोटिक्रोडीकारसूचनार्थ मेकैकदशकस्वीकार इति त- स्याः सिद्धयोगिन्याः सप्तसंख्यात्मकमुद्रानिबन्धतात्पर्यात् सप्ततिसंख्या- निर्बन्ध इति तात्पर्यार्थः । किञ्च, श्रीमन्महार्यक्रमप्रपञ्चः सर्वोऽपि वृन्द- चक्रे विश्राम्यति । तच्च चतुष्षष्टिशक्तिसमष्टयात्मकमिति व्याख्यातम् । तंत्र "धाममुद्रावर्णकलासंविद्भावस्वभावतः | पाता निकेतदृष्टया च इत्युपवर्णितया भङ्गचा शाम्भवसिद्धादिषु व्योमेश्यादीनां पात इति पातक्रमेण व्योमेश्यादिपञ्चकस्वीकारस्यापरिहार्यत्वम् । तद्वत् सर्वानुस्यू- तिसाम्राज्यशालिन्याः श्रीरुद्रौद्रेश्वर्याः सर्वथावश्यम्भाव इति सप्ततिः सम्पद्यत इत्यत्र न विप्रतिपत्तिः । समुल्लास इति । लासो हि सूत्राणां स्फुरत्ता | तत्रोल्लासः शब्दार्थयोरुत्पत्तिमाचष्टे । समुल्लासस्तु सम न्तादुद्भूतात्मिकामनयोः प्रसपताम् । सन्धायिनीमिति । सूत्राणामुत्पत्तिं प्रति तन्त्रकारचित्ते पुष्पादीनामिव वृत्तादौ सन्धानम्, प्रभृतिं प्रति तु शिलीमुखपुङ्खादीनामिव कार्मुकादाविति विशेषः । एकेति । एकैव शक्तिः साधकहृदयमाक्रम्य प्रकाशविमर्शस्वभावा भवन्ती वाच्यवाचकात्मकशा- खाद्यप्र सरपरिपाटीपल्लवितोल्लासां प्रपञ्चवैचित्र्यसंपदमुज्जम्भयति । जा ग्रदित्यादि । तादृश्यां ह्यवस्थायामेतादृश्याः परमेश्वर्याः साक्षात्कारौचि- त्यम् । यदुक्तं श्रीविज्ञानभैरवे - १ १. "अनागतायां निद्रायां विनष्टे बाह्यगोचरे । यावस्था मनसा गम्या परा देवी प्रकाशते ।।" इति । प्रतिज्ञोत्तरामिति । एतदेव हि तत्प्रतिज्ञाया दाढ्यं, यत् स्वविव- क्षितस्य तन्त्रविशेषस्य स्वकारुण्यविषयभूतात् कुतश्चिदुद्भावनं तदुपरि 'तितमसं' ग. पाठः २. 'पाम्', ३. ‘ण्यभू', ४. 'स' क. पाठः,