पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपता "सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज | अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।।” "नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥” " इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥" 6. 9. इति भगवतः फल्गुनप्रबोधनावस्थायां श्रीमदनुत्तरस्रोतःप्रसाधितार्थप्रख्या- पनपाण्डित्यं प्रतायते । माधवः पाण्डुपुत्रायोपदिशतीति गुरुशिष्यभावो- द्भावनेन, "इमं विवस्वते योगं प्रोक्तवानहमव्ययम् | विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ! ॥ स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥” इति गुरुपर्वक्रमात्मनः सम्बन्धस्यावश्यानुसन्धेयता द्योत्यते । पाण्डुपुत्र- स्येत्यर्जुनस्य कुलीनत्वाद्यबिनाभूतं सौजन्यादिगुणयोगमुल्लिङ्गयता " इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ।।" इत्ययोग्यं शिष्यं प्रत्येतदर्थप्रकाशनस्याविहितत्वं, योग्यं प्रति तु कल्प्य- मानस्य पुरुषार्थपर्यवसायित्वं चोपपाद्यत इति । १८७ , पाराशर्यो महायोगी धैर्यगाम्भीरसागरः | भारते भगवद्गीतामधिकृत्येदमन्नवीत् || यत् कुरुक्षेत्रमाक्रम्य धात्रराष्टेषु धन्विषु । पाण्डवेषु च सज्जेषु संगृह्याक्षौहिणीं क्षणात् || 'धाव' क. पाठः २. 'पुत्रायेल्य' ख. ग. पाठः,