पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ महार्थमञ्जरी पितॄन् पितामहान् आतॄन् पुत्रान् पौत्रान् गुरूनपि । हन्तव्यानात्महस्तेन प्रेक्ष्य वैक्लष्यविह्वलम् || त्रस्यन्तं कर्मणः क्रूरादवधूताइवोद्यमम् । बीभत्समानं बीभत्सुं निःस्पृहं राज्यसम्पदि || अनुसन्धाय भगवान् मुकुन्दो रुक्मिणीपतिः । कारुण्याक्रान्तहृदयः स्यन्दनस्थं तमभ्यधात् || हन्त किं तव संवृत्तम काण्डे कश्मलोत्तरम् । वैक्लव्यं त्यज्यतामेतल्लोकद्वयविगर्हितम् || कः पिता तव को भ्राता को गुरुः के च बान्धवाः । त्वमेव तावत् को नाम कारुण्यं नाम किं तव || पात्रमेतस्य कश्च स्यात् केन को वाभिहन्यते । बह्वयः सामान्यतो भाषाः कल्प्यन्ते लोकशास्त्रयोः ॥ विशेषमपरिज्ञाय ताभ्यो मा भूदू विभीषिका । इति लोकोत्तरामर्थमुद्रामुन्मुद्रयन् क्रमात् ॥ प्रसङ्गानुप्रसङ्गेन विश्वविक्षोभकल्पनाम् । अकालकलितस्वच्छस्वच्छन्दानन्दचिन्मयीम् || निश्चिन्वन्निश्चलस्वात्मसंरम्मैक विजृम्भिताम् । उपर्युद्रिक्तकारुण्यो वीरेन्द्रः सव्यसाचिनि || कालग्रासैकरसिकां कालसङ्कर्षणीं कलाम् । अनुप्रविश्य योगेन खेचरीखचितौजसा || स्वबलाक्रमणाटोपव्याप्तकौलक्रमो भवन् । दत्त्वा लोकोत्तरां तस्मै दृष्टिमस्खलितार्चिषम् ॥ प्रांशुः प्रदर्शयाञ्चक्रे वैश्वरूप्यमनुग्रहात् । बाहवो यत्र कोटीनां कोटयः स्फुरदङ्गदाः ॥ सहस्राणां सहस्राणि सूर्ध्ना च मकुटस्पृशाम् यदन्तः सागराः सर्वे सर्वे च कुलपर्वताः ।। १. 'भोगव्या' क. पाठः