पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी इत्यात्मोक्तार्थाननुष्ठाने महाविपद्रपप्रत्यवायोपपादनं चेत्यन्यदुष्कराण्याश्य- र्याणि कर्माण्याख्यायन्ते । देव इत्येतत् क्रीडाद्यनेकार्थाभिधानमुखेन “रसोऽहमप्सु कौन्तेय ! प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥" इत्यादिना प्रपञ्चेन तस्य बहिर्विभूतिपरिस्पन्दाटोपं, “सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । वैदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेदविदेव चाहम् ॥" इत्युत्तरस्फुरणप्रकारं चाह । माधवपाण्डुपुत्रशब्दाभ्यां भगवदर्जुनयोरुभयो- बह्मवासनावैलक्षण्याभावेऽपि. "बहूनि मे व्यतीतानि जन्मानि तव चांर्जुन ! | तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ! ॥" इत्याद्यस्य सार्वज्ञ्यादिशक्त्यौल्वण्यमन्यस्य तद्विपर्ययश्चेत्यनयोरनु ग्राह्यानु- ग्राहकभावौचित्यमासूच्यते । उपदिशतीत्येतत् सर्वत्राष्टादशाध्यायानुस्यूत- मङ्गाङ्गिभावभङ्गया बाह्याभ्यन्तरोभयशास्त्र तत्त्वतात्पर्यास्पदं सांख्ययोगवे- दान्तादिवैचित्र्यव्यतिकरेऽपि इति, “अपिचेत् सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥” "मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥” इति च स्वात्मदेवतामात्रोपास्तिप्राधान्यमभिव्यनक्ति | महार्थमित्यनेन “यो मां पश्यति सर्वत्र सर्व च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥” “अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्व ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥” १. 'योर्बा', २. 'ह्यान्त' ग. पाठः,