पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । मा क्लैव्यं गच्छ कौन्तेय ! नैतत् त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ! ॥" इति तं प्रति भगवतो रहस्यार्थतत्त्व प्रत्यभिज्ञापनौन्मुख्यम् | अनन्तरम स्यैव “कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छेयः स्यानिश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ।।" इति कार्पण्यलक्षणानाथ्यप्रवृत्तात् शिष्यभावाद् देवस्य कारुण्याक्रान्त- हृदयंता, “य एनं वेत्ति हन्तारं यश्चैनं मन्यते इतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥” इत्यादिना भीष्मद्रोणाद्यशेषशरीरान्तर्भूतस्यात्मनो नित्यत्वव्यापकत्वादियो- गादन्यजनहन्यमानत्वाद्यसंभवोद्भावनद्वारा लौकिकवत् किं बाह्यशास्त्रवि- भीषिकया कातर्यमनुभवसीति तस्योपर्यनुग्रहोद्रेकश्वोन्मुच्यते । षोडशसह- स्रशक्तिरित्यनेन बहिष्षोडशस्त्री सहस्र सम्भोगमिवान्तरपि षोडशाधिका- परामर्शप्राबल्योपारूढं तत्तदवान्तरशक्तिसहस्रसमावेशमावेदयतों, देवस्य "दर्शयामास पार्थाय परमं रूपमैश्वरम्" इति वैश्वरूप्यप्रदर्शनौचित्यं, " "कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ' इत्यात्मनो माहात्म्यप्रख्यापनप्राचण्ड्यं, "नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते" इत्यर्जुन स्तुतिसहस्रसन्धुक्ष्यमाणतेजस्कत्वात् " इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ||" इति भूयः पूर्वस्वभावप्रत्यानयनम्, “अथ चेत् त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि” १. 'यतया य' क. ख. पाठः. २. 'ति' क. पाठः. Z