महार्थमञ्जरी स्वक्रियाया अपि व्याख्यां स्वयमेव प्रयुज्महे । उपर्यप्यात्मसंरम्भसम्भोगाम्रेडनोत्सुकः ॥ ८ ॥ यद्वा विनेयजनचित्तचमत्क्रियार्थ- मन्त्रोद्यमोऽयमुदितोऽस्तु तदेतदास्ताम् । संक्षेपविस्तरविभागविविक्तशोभः पुष्पाञ्जलिर्भवतु वाङ्मय एष शम्भोः ॥ ९ ॥ अवगतशिवदृष्टिप्रत्यभिज्ञार्थतत्त्व- क्रमसरणिरहस्योल्लाससर्वस्ववेदी । गुरुचरणसपर्याचातुरीचिद्धनोऽहं गहनमपि हृदन्तर्व्योम तद् व्याकरोमि ॥ १० ॥ इह महति रहस्योन्मीलने मङ्गलाय प्रभवति मम संविद्योगिनीनां प्रसादः । अपितु कुलसपर्याविम्बसंबन्धवन्ध्याः सकृदपि मतिमन्तो नैनमुद्घाटयन्तु ॥ ११ ॥ स्वप्नसमयोपलब्धा सा सुमुखी सिद्धयोगिनी देवी । गाथाभिः सप्तत्या स्वापितभाषाभिरस्तु सम्प्रीता ॥ १२ ॥ वर्धतां देशिकः श्रीमान् संविन्मार्गश्च वर्धताम् । माहेश्वराश्च वर्धन्तां वर्धतां च महेश्वरः ॥ १३ ॥ अथ यदेतदात्मस्वरूपाविभिन्नपरमेश्वरपरामशोपायप्रतिपादनप्रवृत्त मभ्युपगमसिद्धान्तस्थित्या तात्पर्यतः प्रतिज्ञाद्यव (यव) पञ्चकात्मकं महार्थम- अर्याह्वयं महत् तन्त्रम् अत्र सूत्रायमाणा गाथाः सप्ततिर्भवन्ति । तत्र चाद्यायां मङ्गलाचारपूर्वकमादिवाक्योपक्षेपः । द्वितीयायां तन्त्रप्रतिपाद्यस्य वस्तुनो निर्देशः । ततस्तिसृषु स्वात्मतत्त्वे प्रमाणानुपयोगप्रपञ्चनम् । षष्ठ्यामधिकारिविभागव्यपोहः । सप्तम्यां विधिनिषेधनिष्टङ्कनम् । अष्टम्यां संसारस्वरूपनिरूपणम् । नवम्यां स्वात्मनः स्फुटस्यॉप्यस्फुटत्वौचित्यानु- शासनम् । दशम्यां विम्रष्टृस्वरूपविमर्शस्य पुरुषार्थत्वावस्थापनम् । ततो १. 'अहितुकुलसपर्याविन्दुसन्धानवन्ध्या: ', २० 'स्खोचित', ३. 'ति', ४. 'नोश:', ५, 'स्याप्यस्फुटस्याप्य' क. पाठ:.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२०
दिखावट