पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । द्वयोः विमर्शस्वरूपविमर्शः । ततस्त्रयोदशसु षट्त्रिंशत्तत्त्वविवेकः । षड्डि- श्यामुक्तार्थं प्रति परमार्थपर्यालोचनम् । सप्तविंशतितम्यां विश्वस्य प्रकाश- विमर्शोन्तर्भावोद्भावनम् । अष्टाविंश्यामेकत्रैव वस्तुनि शिवशक्तिविभौगा- ध्यवसानम् । एकोनत्रिंश्यां परमेश्वरस्य विश्वशरीरतया शक्त्युत्कर्षोपपा- दनम् । त्रिंश्यां विश्ववैचित्र्यस्य स्वात्मन्यवैकल्येनावस्थानप्रदर्शनम् । एकत्रिंश्यां प्रमात्रादित्रिकस्याद्वैतपर्यवसायित्वोन्मीलनम्। ततो द्वयोः स त्यासत्यविभागव्युदासः । ततोऽपि द्वयोः परमेश्वरसपर्याया वैशिष्टयावभा- सनम् । ततश्च षट्सु पूज्यतया श्रीपञ्चार्थक्रमावमर्शः । ततश्च पञ्चसु सप- र्यायाः स्वरूपनिष्कर्षः । ततोऽपि द्वयोर्देवतास्वभावनिर्णयः । एकोनपञ्चा- श्यां मन्त्रतत्त्वोद्धारः । पञ्चाश्यां वाग्वृत्तिविचारः । एकपञ्चाश्यां मुद्रास- तत्त्वोन्मुद्रणम् । द्विपञ्चाश्यां विमर्शशक्तेभ (गो? गा) पवर्गफलप्रदत्वोलिङ्ग- नम् | त्रिपञ्चाश्यां जीवन्मुक्तयुपपत्तिः । चतुष्पञ्चाश्यां क्षणभङ्गवादभङ्गः । पञ्चपञ्चाश्यां स्वात्मस्वरूपस्यानन्दस्पन्दतानुवर्णनम् । ततश्चतसृषु तत्त्वा- वबोधं प्रति स्फुट उपायोपदेशः । ततश्च षट्सु विमर्शानुप्रवेशिनां नैश्चि- नत्यनिश्चयः । षट्षष्टितम्यां स्वात्मविमर्शस्य सद्यःसिद्धिदत्वप्रत्यायनम् । सप्तषष्टितम्यां विमर्शलाभस्य गुरुकटाक्षाधीनत्वप्रख्यापनम् । अष्टषष्टित- म्याम् उक्तार्थस्य सर्वदर्शनसारत्वसाधनम् । एकोनसप्ततितम्यां तन्त्रवि- स्तरस्य सङ्ग्रहेणोपन्यासः । सप्ततितम्यां व्यासादियोगिनामप्यनुत्तरीथैंक- शरणत्वप्रकाशनम् । अन्त्यायां तन्त्रकृतस्तन्त्रोपदेशहेतुप्रयोगः । इति तन्त्रा- र्थतत्त्वतात्पर्यार्थः ॥ अथ ग्रन्थो व्याख्यायते। श्रीमदनुत्तराद्वैतसिद्धिहेतोद्वैतप्रथासतत्त्वप्र- त्यूहव्यपोहदक्षं देशिकेन्द्रभट्टारकस्वातन्त्र्य मनुसंधान स्तन्त्रकृत् तन्त्रोप- न्यासं प्रत्युपोद्धातमुद्घाटयति - णमिऊण णिच्चसुद्धे गुळुणो चळणे महप्पआसस्स । गइइ महत्थमंजरिमिमिणं सुरहिं महेसराणंदो ।। १ ।। १. ईद्वय न्त' क. पाठः २. 'भावनाध्य', ३. 'तो दू' ग. पाठ:. .. ‘रैक' क. पाठ:-