पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ महार्थमञ्जरी परिमलाख्यव्याख्योपेता श्रीमहेश्वरानन्दप्रणीता । नमो नालयते शुण्डां विषाणेन मृणालिने । प्रत्यक्कमलकन्दाय कर्णाभ्यां पर्णशालिने ॥ १ ॥ जयत्यमूलमम्लानमौत्तरं तत्त्वमद्वयम् । स्पन्दास्पन्दपरिस्पन्द मकरन्दमहोत्पलम् ॥ २ ॥ कारुण्यामृतसिन्धोरुदितमिवावर्तमीक्षणापाङ्गात् । मौक्तिकमयं दधाना ताटङ्कं जयति गौरवी मूर्तिः ॥ ३ ॥ स्फूर्तये विश्वशिल्पस्य श्रीशिवानन्दमूर्तये । नित्योन्मेषनिमेषायै निस्तुषायै नमस्त्विषे ॥ ४ ॥ यस्मादनुत्तरमहाह्रदमज्जनं मे सौभाग्यशाम्भवैसुखानुभवश्च यस्मात् । तत्स्वात्मचित्क्रमविमर्शमयं गुरूणा- मोवलियुग्ममुदितोदितवीर्यमीडे ॥ ५ ॥ नमो निखिलमालिन्यविलोपनपटीयसे । महाप्रकाशपादाब्जपरागपरमाणवे ॥ ६ ॥ गोरक्षो लोकधिया देशिकदृष्ट्या महेश्वरानन्दः । उन्मीलयामि परिमलमैन्तर्ग्राह्यं महार्थमञ्जर्याम् ॥ ७ ॥ 'वशिवानु', २. 'लो', ३. 'मत्र ग्राहां' क. पाठः, B १. G, P. T, 2911. 500. 19-6-18,