पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी - चेत् | सत्यम् । किं क्रियताम् । अत एव ह्येतत् पारमेश्वरं स्वातन्त्र्यमित्य- सकृदाचक्ष्महे । ननु बिम्बमेवैतदस्त्विति चेत् । न । तलक्षणायोगात् । बिम्बं ह्यन्यसंमिश्रणशून्यं, स्वतन्त्रमेव वस्त्वित्युपलभ्यमानत्वात् । यथा दर्पणानुपश्लिष्टं वदनादीति | यदुक्तं श्रीतन्त्रालोके – "ननु बिम्बस्य विरहे प्रतिबिम्यं कथं भवेत् । किं कुर्मों दृश्यते तद्धि ननु तद्विम्बमुच्यताम् || नैवं तल्लक्षणाभावाद् बिम्बं किल किमुच्यते । अन्यामिश्रं स्वतन्त्रं सद् भासमानं मुखं यथा ।।” इति । नन्वेवं प्रतिबिम्बलक्षणस्याप्ययोग इति चेत् । न । तस्यैवं लक्ष्य- माणत्वात् । यथोक्तं तत्रैव - “अन्यव्यामिश्रणायोगात् तद्भेदाशक्यभासनम् । प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा ॥ बोधमिश्रमिदं बोधाद् भेदे वा शक्यभासनम् । पुरतत्त्वादिबोधे किं प्रतिबिम्बं ने भास्यते ॥” इति । ननु सौगतसिद्धान्तसाधितात् प्रतिबिम्बवादाद् युष्मदुपक्षिप्तस्य किं वैलक्षण्यमिति चेत । उच्यते - तेषां हि वित्तौ वेद्यमेव प्रतिविम्वति, न पुनर्वित्तिर्वद्ये । अस्माकं तु "सौगतस्यापि संविदि संवेद्यं प्रतिबिम्बमर्प- यति, नतु संवेद्ये संविदि”ति श्रीप्रत्यभिज्ञाविवृतिविमर्शिनीस्थित्या वित्तौ वे- द्यमिव वेद्ये च वित्तिः प्रतिबिम्बमुत्पादयति । यदेतदुभयमपि वेदितुः पर- मेश्वरस्य स्फुरणप्रकार इति स्वच्छत्वोत्कर्ष प्रति न किञ्चिद् वैषम्यमनुभ- वति । यद् वक्ष्यति – “अविआरोहअपासे” इत्यादौ । ततश्च यदुभयत्र प्रतिबिम्बति (य?त) द्विश्ववैचित्र्यमित्याख्यायते । यदुक्तं मयैव संविदु- लासे. Re SUANDURAS “आदर्शयोरिवान्योन्यं लम्भितप्रतिबिम्बयोः । शिवशक्त्योरनन्ताः स्युरन्तरन्तः प्रसक्तयः ॥” 66 १. 'म्भो' ग. पाढ: २. 'न गुण्यते' क., 'न भस्यतः' ग. पाठ: ‘रोभयपासे' ख. पाठः.